एतत् पृष्ठम् परिष्कृतम् अस्ति
व्यक्तिविवेके प्रथमो विमर्श:|
लक्षणत्वात् । पुनररय क्कचित् समासोक्त्यादौ प्राधान्यमुच्यते तत् प्रकरनिकत्वा- पेक्षयैव । न प्रतीयमानापेक्षया । यथा---
“उपढिरागेम विलोलतारकं तथा गृहीतं शशिना निशाभुखम् ।। यथा समस्तं तिमिरांशु तया पुरोऽपि रागादलितं न लक्षितम् ॥”
अन्न हि प्रतीयमानेनानुगतं वाच्यमेव प्राधान्येन प्रतीयते समारोपितनायिकनाय- कव्यवहारयोर्निशाशशिनोरेव वाक्यार्थत्वात् । तदपेक्षया च तस्य लिङ्गत्वादुपस- र्जनीमावाव्यभिचार एव । व्याभिचारेऽपि वैफल्यादनुपादेयमेवैतद् गुणीभूतव्य- ङ्गचेपि काव्ये चारुत्वप्रकर्षदर्शनार्दर्शनादिति बक्ष्यते ।
उक्तं गुणीकृतात्मत्वं यदर्थस्य विशेषणम् ।। गमकत्वान्न तत् तस्य युक्तमव्यभिचारतः ।। ७ ।।
इति सङ्ग्रहश्लोकः । शब्दः पुनरनुपादेय एव । तस्य स्वार्थाभिधानमन्तरेण व्या- पारान्तरानुपपत्तेरुपपादयिप्यमाणत्वात् । न च ततम्यानुकरणव्यतिरेकेणोपसर्जनीकृ- तार्थत्वं सम्भवति यथा---
‘तं कर्णमूलमागत्य पालतच्छद्मना जरा । कैकेयीशङ्कयेवाह रामे श्रीर्न्यस्यतामिति ।।”
कुतस्तर्हि तदर्थावगतिः । अनुकार्यदिति ब्रूमः तस्य सार्थकनिरर्थकत्वभेदेन द्वैवि- ध्यतः । न त्वनुकरणात् , तस्येतिना व्यवच्छिन्नस्य स्वरूपमात्रेऽवस्थानात् । अन्यस्य तूपसर्जनीभावाव्यभिचार एव तस्य तदर्थमुपादानतः । यो हि यदर्थ- मुपादीयते, नासौ तमेवोपसर्जनीकरोतीति युक्तं वक्तु यथोदकाध्युपादानार्थमु- पातो घटादिस्तदेवोदकादि । अन्यथा प्रधानेतरव्यवस्था निर्निबन्धनैव स्यात् । अत एव घटादिरेव प्रतिनिधीयते नोदकादीत्यसम्भवो लक्षणदोषः । व्यभिचार- सम्भवयोरपि वा यत् स्वार्थयोरुपसर्जनीकृतत्ववचनं तत् पुनरुक्तं तयोरर्थान्त- राभिव्यक्त्यर्थमुपात्तयोरसामर्ध्यदेव तदवगतेरित्युक्तम् । न च स्वरूपमात्रानु- वादफलमेतदिति शक्यं वक्तुं तस्य पुनरुक्तिकारत्वोपयादनतः । एवञ्च यत् ‘सुवर्णपुष्पां पृथिवी'भित्यायुदाहरणमुपदर्शितं, तदसिद्धसाध्यसाधनधर्मानुग- ममित्यवगन्तव्यम् । किञ्च यथाभिधेयोऽर्थस्तद्विशेषणं चोपात्तं तद्वदाभिधाप्युपा- दानमर्हत्येव । अन्यथा यत्र दीपकादरेलङ्कारादलङ्कारान्तरस्योपमादेः प्रतीतिस्तत्र