पृष्ठम्:व्यक्तिविवेकः (राजानकरुय्यककृतव्याख्यासहितः).pdf/३३

एतत् पृष्ठम् परिष्कृतम् अस्ति

ब्यक्तिविवेके परतां विमर्शः ।

ध्वनिस्वमिष्टं न स्यात् तल्लक्षणेनाव्याप्तेः । अलङ्काराणां चाभिधात्मत्वमुपगतं तेषां

भङ्गिभणितिभेदरूपत्वात् ।

"अलङ्कारान्तरन्थापि प्रतीतौ यत्र भासते ।

तत्परत्वं न वाच्यस्य नासौ मार्गौ ध्वनेर्मतः ।। "

इत्यादिना तत् प्रतिषिद्धमित्युच्यते । तत्प्रतिषेधहेतोः काव्यातत्परतालक्षणस्यासि-

द्धत्वाद् उपमानोपमेयभादाद्यभिधानपरतयैव दीपकाद्यलङ्कारभङ्गिभणितिसमाश्रय-

णतः प्रतीयमानस्यैव चालङ्कारादेश्रचयत्वातिशययोगात् तावन्मात्रानिबन्धनत्वाञ्च

तदध्वनिव्यवहारस्येति कथं तत्प्रतिषेधसिद्ध. । अथार्थप्रतीत्यन्यथानुपपत्त्यैव

सद्भावावगमः, अर्थशब्दयोरुपसर्जनीकृतस्वार्थत्वाभिधानसामथ्यरञ्च तदुपसर्जनी-

भावावगतिः, तस्याः प्राधान्येन तयोरुपसर्जनीभावादिति व्यर्थस्तदुपादान-

प्रसङ्ग इति । एवं तहर्यर्थस्यैवोपसर्जनीभावोऽभिवेयो न शब्दस्य, तस्याभिधाया

इव तदुपसर्जनीभावाभिधानसामथ्र्थारदेव तदवगतिसिद्धेरिति लक्षणवाक्ये व्यर्थे

शब्दग्रहणम् , अन्यथाभिधाग्रहणमपि कर्तव्य प्रसज्थेत विशेषाभावात् । न

चास्य स्वार्थाभिधानमात्रपर्यवसितसामथ्र्यरन्य ब्यापारान्तरमुपपद्यते, येनायमर्था-

न्तरमवगमयेत् , तदपेक्षं चोपसर्जनीकृतार्थत्वानियात् । अर्थश्यैव तदुपपत्तिसमर्थ-

नात् । सर्व एव हि शाब्दो व्यवहारः साध्यसाधनभावगर्भतया प्रायेणानुमानरू-

पोऽभ्युपगन्तव्यः, तस्य परप्रवृत्तिनिवृत्तिनिबन्धनत्वात् तयोश्च सम्प्रत्ययासम्प्रत्य-

यात्मनोरन्यथाकर्तुमशक्यत्वतः । न हि युक्तित्किमनवगच्छन् कश्चिद्विपश्चिद्वचनमात्रात्

सम्प्रत्ययभाग् भवति । द्विाविधो हि शब्दः पदवाक्यभेदात् । तत्र पदमनेकप्र-

कारं नामाख्यातोपसर्गनिपातंकर्मप्रवचनीयभेदात् । तत्र सत्त्वप्रधानानि नामा-

नि । तान्यपि बहुप्रकाराणि सम्भवन्ति । जातिगुणक्रियाद्रव्याणां तत्प्रवृत्तिनिमित्तानां

बहुत्वात् । तद्यश घटः पट इति जातिशब्दः । शुक्लो नील इति गुणशब्दः ।

पाचकः पाठक इति क्रियाशब्दः । दण्डी विषाणीति द्रव्यशब्दः । केचित् पुन-

रेषां क्रियैवैका प्रवृत्तिनिमित्तमिति क्रियाशब्दत्वमेव सवेषां नामपदानामुपगच्छान्ति !

तथा हि-धेटादिशब्दाः स्वार्थे प्रवर्तगाना घटनादिक्रियामेवान्वयव्यातिरेकाभ्यां प्रवृ-

त्तिनिमित्तभावेनावलम्बमाना दृश्यन्ते ! न घटत्वादिसामान्यम् । सा चैषा घटनादि-

क्रिया घटत्वसामान्ययोगदन्यथा वारतु । नैतावता तरयाः प्रवृत्तिनिमित्तत्वव्या-

घातः । न च सत्यपि घटत्वसामान्ये स्वयमघटन घटात्मतामनापद्यमान एवासो

१, ‘घटादय' इति खपुस्तके पाठः,