पृष्ठम्:व्यक्तिविवेकः (राजानकरुय्यककृतव्याख्यासहितः).pdf/३४

एतत् पृष्ठम् परिष्कृतम् अस्ति

४ व्यक्तिविवेके इथ विमर्शः ।

घटव्यपदेशाविषयो भवितुमर्हति । एवं हि पटोऽपि घटव्यपदेशाविषयः स्यात् । घटनाक्रयाकर्तृत्वाभावाविशेषात् । न हि शुक्लत्वमनापद्यमान एवार्थः शुक्ल इति व्यप- दष्टुं शक्यते, अपचन्नेत्र वा पाचक इति । तगाद् घटनाक्रियाकर्तुत्वलक्षनमेव घटत्वं घटशब्दस्य प्रवृत्तौ निमित्तमवसेयम् । न घटत्वगात्रम् । तदेव चेह घटनमित्यु- क्तमे । ननु चेष्टाद्यर्थाइ घटत्य देवार्ततोरजारौ घटत इत्याद्यर्थं घटनादिक्रियैव सर्वेषां घटाशि दाना प्रवृतिनिभित्तभावेना नाभिरपीप्यत एवेति व्यर्थः पक्षान्त- रोपन्यासः । सत्यमिप्यत एव भवद्धि । किन्तु सा शब्दस्य व्युत्पत्तिानमित्तं, न प्रवृत्तिनिमित्तम् । अयाद्ध व्युत्पानिमित्तम्, अन्यच्च प्रवृत्तिनिमित्तम् । यथैकेषाम् मते गमनादिक्रिया गवादिशब्दाना व्युत्पत्तिनिमित्त एकार्थसमवायात् गोत्वादि प्रवृत्तिनिमितीकरोति । अत एव गच्छत्यगच्छति च गवि गोशब्दः सिद्धो भवति । एवमिहापि चेष्टादिक्रिया घटादिशब्दानां व्युत्पानिमित्तमिति सिद्धं भवति । तदपेक्षमेव च विपच्य घटो भवतीत्यादौ विपाकादिक्रियायाः पौर्वकाल्यं तृप्रि- त्ययस्य विषयो वेदितव्यो यथाधिाश्त्य पाचको भवतीत्यादौ पाकाद्यपेक्षमधिश्र- यणादेनं भवनक्रियापेक्षम् । सा हि नावश्यं प्रयुज्यते । प्रतीयते तु पदार्थानां सत्ताव्याभिचारात्, न तु तावता तदपेक्षं तदिति मन्तव्यं, तस्या बहिरङ्गत्वाद् अर्थ- स्थासङ्गतिप्रसङ्गाच्च । प्रयुज्यमानक्रियापेक्षभेय च प्रायेण पौर्वकाल्यं तैो विषयो न प्रतीयमानापेक्षम् । इतरथा---

     “श्रुत्वापि नाम बधिरो दृष्ट्वाप्यन्धो जडो विदित्वापि ।
      यो देशकालकार्यव्यपेक्षया पण्डितः स पुमान् ॥"

इत्यादि प्रयोगजातमनुपपन्नमेव स्यात् श्रवणादीनां तत्पूर्वकालत्वाभावात् । अत्र तु श्रुत्यादिशक्तिविरहलक्षणबाधिर्यादिक्रियापेक्षमेव श्रवणादीनां पौर्वकाल्यामिति न काचिदनुपपात्तः । बह्रीषु च तासूतरोत्तरक्रियापेक्ष पूर्वपूर्वक्रियापौर्वकाल्यं यथा स्नात्वा भुक्ता पीत्वा व्रजतीत्यादौ । अत्र च विपचनघटनभवनरूपा बढ्यः क्रिया इत्यत्रापि घटनापेक्षं विपचनस्य तद् भवितुमर्हत्येव, उभयत्रापि कर्तृप्रत्ययनिर्देशा- विशेषात् । केवल कृद्राच्यतया ऋतुरुपाधिभावं गामतेति भिन्नकर्तृकत्वभ्रमः । यथा-----

| १ ‘त्युच्यते' इति खपुस्तके पाठ २ 'तत्च यथैषा' इति कपुस्तकपाठ: ३ 'कत्वा- प्रत्ययस्य' इति खपुस्तके पाठ..