एतत् पृष्ठम् परिष्कृतम् अस्ति
व्याक्तिविवेके प्रथम विश्र्शः ।
"शिशिरकालमपास्य गुणोऽस्य नः क इव शीतहरस्य कुचोप्मणः । इति धियास्तरुषः परिरेभिरे घनमतो नमतोऽनुमतान् प्रियाः ।।"
इत्यत्र कुचोमणः कर्तुर्हरणाक्रिया । अत एव केचिदपान्येत्ययं ल्यबन्तप्रतिरूपको निपात इति व्याख्यातवन्तः । यथा वा --
“निरीक्ष्य संरम्भनिरस्तधैर्य राधेयभाराधितजामदग्न्यम् । असंस्कृतेषु प्रसर्भ भयेषु जायेत मृत्योरपि पक्षपातः ।।
इत्यत्र निरीक्षणाक्रियाकर्तुमृत्योर्भयपक्षपतनक्रये विषयविषयिभावभङ्गयोपात्ते । यथा वा ‘यां दृष्ट्वापि समुत्सके मनसिमे मे नान्या करोत्यास्पदम्' इत्यत्र दर्शनक्रियाकर्तु- र्मनसोऽन्यकर्तृकास्पदाक्रियाधिकरणभावेनोपात्तस्यौत्सुक्यक्रिया विशेषणभावेनोपात्ता। कचित् पहुँः सम्बन्धितामुपगतासौ भ्रमहेतुः । यथा ‘स्मर सैस्मृत्य न शान्तिरन्ति मे' इति । केचित् पुनः कर्तृक्रिययोरनुपादानमपि हेतुमिच्छन्ति । तत्र कर्तुर्यथा---
“ननु सर्व एव समवेक्ष्य कमपि गुणमेति पूज्यताम् । सर्वगुणविरहितस्य हरेः परिपूजया कुरुनरेन्द्र ! को गुणः ।।"
अत्र हि समवेक्षापूजयोरेको लोकः कर्ता । स चे सामथ्यसिद्ध इति नॊपात्तः । पूजा चोपाचापि कृद्वाच्यतया कर्मोपसर्जनीभूतेत्युभयं भ्रमहेतुः । क्रियाया यथा -
"अकृत्वा धरसन्तापमरत्वा खलनम्रताम् । अनुत्सृज्य सतां मार्ग यत् स्वल्पमपि तद्बहु ||"
अत्र हि प्रकरणादिगन्याया लाभाक्रयाया अनुपादान करणादीनां भिन्नकर्तृकत्वन्नम- हेतुः । तदुक्तम्- "क्तुर्र्रुधिणातयोक्त कृद्वाच्यतया गतान्यगुणतां वा । क्तो भिन्नकर्तृकत्वभ्रमाय भवति क्रियावश्च तयोः ।।" "पौर्वापर्य क्रियाणां यद् वास्तवं तदपेक्षिाण । क्तुहु पौर्वकाल्ये कि तासां प्राधान्येतचिन्तया ।।"
इत्यलमनेन ।
घटतीति घटो शेयो नायटन् घटतामियात् । अघटत्वाविशेषेण पटोऽपि स्याद् घटोऽन्यथा ।। ८ ।। घटनञ्च तदात्मत्वापत्तिरूपा क्रिया मता । मूलञ्च तस्याश्चित्रार्थाभासाविष्कृतिरीशितुः ।। ९ ।। 'तु' इतु खपुस्तके पाठ..