व्यक्तिचित्रेके प्रधमो विमर्शः ।
"द्विधा कैध्रित् पदं भिन्न चतुर्घ पञ्चधापि वा ।। अपोद्धर्घत्यैव वाक्येभ्यः प्रकृतिप्रत्ययादिवत् ।।" इति । एतत् वक्ष्यते । वाक्यमेकप्रकारं, क्रियाप्राधान्यात् , तग्यध्रैकत्वात् । यदाहुः- "साकाङ्वयवम् भेदे परानाकाङ्कशब्दकम् । क्रियाप्रधानं गुणवदेकार्थ वाक्यामिप्यते ।।" अर्थोऽपि द्विविधो वाच्योऽनुमेयध्र । तत्र शब्दव्यापारविषयो वाच्यः ।
स एव मुख्य उच्यते । यदाहुः-
"श्रुतिमात्रेण यत्रास्य तादर्य्यमवसीयते । तं मुख्यमर्थं मन्यन्ते गौण यलोपपादितम् ।।"
इति । तत एव तदनुमिताद्वा लिङ्गमुताद्यदर्थान्तरमनुमीयते सोऽनुमेयः । स च त्रिविधः । वस्तुमात्रमलङ्कारा रसादयश्चेति । तत्राद्यौ वाच्यावपि सम्भवतः । अ- न्यस्त्वनुमेय एवेति वक्ष्यते । तत्र पदम्यार्धो वाच्य एव नानुमेयः, तस्य निरं- शत्वात् साध्यसाधनभावाभावत । वाक्यार्थस्तु बाच्यस्यार्थस्यांशपरिकल्पनाया- मंशानां विध्यनुवादभावेनावस्थतेर्विधेयांशस्य सिद्धासिद्धतयोपपादनानपेक्षसापे- क्षत्वेन द्विविधो बोद्धव्यः । तत्र सिद्धौ शुध्रो विध्यनुवादभावः स्वरूपमात्रानुवा- दाद् , यथा---
'अस्त्युत्तरस्यां दिशि देवतात्मा हिमालयो नाम नगाधिराजः'
इत्यत्र । असिद्धौ साध्यसाधनभावरूपोऽनूद्यमानस्यांशस्य साधनधुराधिरोहात् । साध्यसाधनभावश्चानयोरविनाभावासायकृतोऽवगन्तव्यः । स च प्रमाणमूलः । तञ्च त्रिविधम् । यदाहुः ----
"लोको वेदस्तथाध्यात्म प्रमाणं त्रिविध स्मृतम् ।
इति । तत्र लोकप्रसिद्धार्थविषयो लोकः । यथा ---- “कयासि कामिन् सरसापराधः पादानतः कोपनयावधूतः ।। यस्या. करिष्यामि दृढानुतापं प्रयालथ्याशरणं शरीरम् ॥ अत्र हि पादानतितदवधूत्यो सरसापराधकोपनत्वयोश्च लोकप्रमाणसिद्धः कार्यका- रणभावस्तन्मूलश्च साध्यसाधनभावः । यथा वा-----
"चन्द्रं गता पद्मगुणान् न भुङ्के पद्माश्रिता चान्द्रमसीमभिख्याम् । उमामुखं तु प्रतिपद्य लोला द्विसंश्रयां प्रीतिमवाष लक्ष्मीः ।।"
अत्र हि पद्मगुणानां चान्द्रमस्या अमिस्व्यायाध्र युगपदभोगे लक्ष्न्या यत् कारण-