पृष्ठम्:व्यक्तिविवेकः (राजानकरुय्यककृतव्याख्यासहितः).pdf/३८

एतत् पृष्ठम् परिष्कृतम् अस्ति

25Isrful 1,9Farkar - Pasura saat rasJ Janata व्यक्तिववेके प्रथमो विमर्शः । द्वयं रात्रिसङ्केचिदिवानुदयलक्षणं तल्लोकप्रसिद्धमेवेति नोपादेयतामर्हति । शास्त्र- मात्रप्रसिद्धार्थविषयो वेदः । वेदग्रहणमितिहासपुराणधर्मशास्त्राधुपलक्षणं तेषां तन्मू- लत्वोपगमात् । यथा--- "अयाचितारं नहि देवमद्रिः सुतां प्रतिग्राहयितुं शशाक । अभ्यर्थनाभङ्गभयेन साधुर्मध्यस्थ्यमिष्टेऽप्यवलम्बतेऽर्थे ।” अत्र हि कारणभूतस्य भगवद्गतस्य सम्प्रदानत्वनिबन्धनस्य याचनस्याभावे भूध- रेन्द्रगतस्य कार्यस्थ कन्याग्रहणशक्तत्वस्याभाबोपनिबन्धः शास्त्रमूलः, तयोः कार्य- कारणभावस्य तन्मूलत्वेन प्रसिद्धेः । यदाहुः ---- “अयाचितानि देयानि सर्वद्रव्याणि भारत ! । अन्नं विद्या तथा कन्या अनर्थिभ्यो न दीयते ।। अर्थी च सम्प्रदानम् । यदुक्तम् ----- “अनिराकरणात् कर्तुस्त्यागाङ् कर्मणेप्सितम् ।। प्रेरणानुमतिभ्यां वा लभते सम्प्रदानताम् ।। एवञ्च कारणानुपलब्धिप्रयोगोऽयमार्थ इति मन्तव्यं, यथा नात्र धूमोऽमेरभावा- दिति । आध्यात्मिकार्थविषयमध्यात्मं । यथा ---- "पशुपतिरपि तान्यहानि कृच्छादगमयदद्रिसुतासमागमोत्कः । कमपरमवश न विप्रकुर्युर्विभुमपि तं यदमी स्पृशन्ति भावाः ॥" अत्र हि भगवत्पशुपतिगतस्य कृच्छ्राद्दिवसातिवाहनस्याद्रिसुतासमागमोत्कत्वस्य चाध्यात्मसिद्धः कार्यकारणभावः यन्मूलोऽयमनयोस्साध्यसाधनभावः । स हि द्वि- विधः शाब्दश्चार्थश्चेति । सोऽपि च साध्यसाधनयोः प्रत्येक पदार्थवाक्यार्थरूप- त्वात् पदार्थस्य च जातिगुणक्रियाद्रव्यभेदेन भेदाद्धर्मधर्मितया च धर्मस्थापि सामानाधिकरण्यवैयधिकरण्यभेदाई वाक्यार्थस्य च क्रियात्मनः कारकवैचित्र्येण वैचित्र्याधथायोगमन्योन्यसाङ्कर्याइहुविद इति तस्य दिड्मात्रमिदमुपदश्यते । तत्र धर्ममात्रस्य साधनभावे शब्दो यथा---- “प्रजानां विनयाधानाद्रणक्षाद् भरणादपि ।। स पिता पितरस्तासां केवलं जन्महेतवः ।।" | १, ‘मानी मा' इति खपुस्तके पायः.