पृष्ठम्:व्यक्तिविवेकः (राजानकरुय्यककृतव्याख्यासहितः).pdf/४१

एतत् पृष्ठम् परिष्कृतम् अस्ति

Patna kishal As:/- (Avaliers are rea li n s ब्याकविवेके प्रथामे विमर्शः ।।

द्विविधश्च प्रतिषेध उक्तः सुप्तिडन्तविषयत्वात् । तद्यथा-- “अथन्ङ्गराजादवतार्य चक्षुर्यातेति जन्यामवदत् कुमारी । नासौ न काम्यो न च वेद सम्यक् द्रष्टुं न सा भिन्नरुचिर्हि लोकः ।। इति । सम्भाव्यनिषेधानवर्तनं हि प्रतिषेधद्वयस्य विषय इति । तथा चाह ध्वनि- कारः---‘साररूपो ह्यर्थः स्वशब्दानभिधेयत्वेन प्रकाशितः सुतरां शोभामावहति । प्रसिद्धिश्चैयमस्त्येव विदग्धपरिषत्सु यदभिमततरं वस्तु व्यङ्ग्यत्वेन प्रकाश्यते न वाच्यत्वेन' इति । आद्ययोस्तु क्रमस्य मुलक्षत्वाद् भ्रान्तिरपि नास्तीति निर्निब- न्धन एव तत्र व्यङ्ग्यव्यपेदशग्रहः । अत एव श्रूयमाणानां शब्दानां ध्वनिव्यपदे- श्यानामन्तः सन्निवेशिनश्च स्फोटाभिमतम्यार्थम्य व्यङ्गयव्यञ्जकभावो न सम्भवतीति व्यञ्जकत्वसाम्याद्यः शब्दार्थात्मनि काव्ये ध्वनिव्यपदेशः सोऽप्यनुपपन्नः, तत्रापि कार्यकारणमूलस्य गम्यगमकभावम्योपगमात् । ननु विभावादिवाक्यार्थसमकालमेव रत्यादीनां भावानां प्रतीतिरुपजायमाना सर्वैरेवावधार्यते । न तु तत्रान्तरा सम्ब- न्धस्मरणादावन्नव्यवधानसवित्ति. काचिन् । रत्यादिप्रतीतिरेव रसादिप्रतीतिरिति मुख्यवृत्त्यैव व्यङ्गयव्यञ्जकभावाभ्युपगम. । तत्र प्रदीपघटादिवदुपपन्नो गम्यगमक- भावः । यत् स एवाह - ‘व्यञ्जकत्वमार्गे तु यदार्थोऽर्थान्तरं द्योतयति तदा स्वरूपं प्रकाशयन्नेवासावन्यस्य प्रकाशकः प्रतीयते प्रदीपवद् । यथा -- “लीलाकमलपत्राणि गणयामास पार्वती ।” इत्यादौ' इति । पुनः स एवाह-‘नहि व्यङ्गचे प्रतीयमाने वाच्यबुद्धिदूरीभवति । वाच्याविनाभावेन तस्य प्रकाशनात् । तस्माद् घटप्रदीपन्यायस्तयोः । यथैव हि प्रदीपद्वारेण घटप्रतीतावुत्पन्नाया न प्रदीपप्रकाशो निवर्तते तद्वयङ्गयप्रतीतौ वाच्यावभास' इति । उच्यते । वाच्यप्रतीयमानयोरर्थयोर्यथा क्रमेणैव प्रतीतिर्न समकालं यथा चानयोर्गम्यगमकभावः तथा तेनैव व्याक्तिवादिना तयोः स्वरूपं निरूपयितुकामेनाप्युक्तं, तदेवास्माभिः समाधिसुभिरिह लिख्यते परम् । तद्यथा- ‘न हि विभावानुभावव्याभिचारिण एब रसा इति कस्यचिदवगमः । अत एव विभावादिप्रतीत्यविनाभाविनी रसादीनां प्रतीतिरिति तत्प्रतीत्योः कार्यकारणभावे- नावस्थानात् क्रमोऽवश्यम्भावी । स तु लाघवान्न लक्ष्यत इत्यलक्ष्यक्रम एव सन्तो व्यङ्गया रसादय इत्युक्तम्' इति । पुनश्च ‘तस्मादभिधानाभिधेयप्रतीत्योरिव वाच्य, व्यङ्ग्यप्रतीत्योर्निमित्तनिमित्तिभावाद् नियमभावी क्रमः । स तूक्तयुक्तेः कचिल्लक्ष्यते