पृष्ठम्:व्यक्तिविवेकः (राजानकरुय्यककृतव्याख्यासहितः).pdf/४२

एतत् पृष्ठम् परिष्कृतम् अस्ति

व्यक्तिविवेके प्रथम विमर्शः । काचीतु न लक्ष्यत इति । तदेवं वाच्यप्रतीयमानयोर्वक्ष्यमाणक्रमेण लिङ्गलिङ्गिभा- वस्य समर्थनात् सर्वस्यैव ध्वनेरनुमानान्तर्भावः समन्वितो भवति तस्य च तद- पेक्षया महाविषयत्वात् । महाविषयत्वं चास्य ध्वनिव्यतिरिक्तेऽपि विषये पर्यायो- क्तादौ गुणीभूतव्यङ्गयादौ च सर्वत्र सम्भवात् । तच्च वचनव्यापारपूर्वकत्वात् प- रार्थमित्यवगन्तव्यम् । त्रिरूपालिङ्गाख्यानं परार्थमनुमानमिति केवलमुक्तनयानभिज्ञ- तया तन्न लक्षयत्यविचक्षणो लोकः । अथ यदि सर्व एव वाक्यार्थः साध्यसाधन- भावगर्भ इत्युच्यते । तद्यथा साध्यसाधनयोग्तत्र नियमेनोपादानं तथा दृष्टान्त- स्यापि स्यात् तस्यापि व्याप्तिसाधनप्रमाणविषयतयावश्यापेक्षणीयत्वात् । न, प्रसि- द्धसामर्थ्यस्य साधनस्योपादानादेव तदपेक्षायाः प्रतिक्षेपात् । तदुक्त - “तद्भावहेतुभावौ हि दृष्टान्ते तदबेदिनः ।। ख्याप्येते विदुषां वाच्यो हेतुरेव च केवलः ।।" । इति । ननु कुतोऽयं रत्यादीनां सुखाद्यवस्थाविशेषाणां काव्यादौ सचेतनचमत्कार- कारी सुखास्वादसम्भवः, यो रसादीनामनुमेयानां व्यङ्गयत्वोपचारस्य प्रयोजनाश- तया कल्प्यते । न हि लोके लिङ्गतः शोकादिष्वनुमीयमानेष्वनुमातुः सुखास्वाद- लवोऽपि लक्ष्यते । प्रत्युत साधूनामुदासीनानामपि वा भयशोकदौर्मनस्यादिदुःख- मसममुपजायमानमवधार्यते । न च लोकतः काव्यादौ कश्चिदतिशयः, येनासौ तत्रैवोपगम्येत, न लोके । त एव हि लौकिका विभावदियो हेतुकार्यसहकाररूपा गमकाः । त एव च रत्यादयोऽवस्थाविशेषरूपा भावा गम्याः । तत् कोऽतिशय. काव्यादौ यत् तत्रैव रसास्वादो न लोक इति प्रयोजनशासम्भवाद् रत्यादिषु व्य- इयत्वोपचारोऽनुपपन्न एव । | उच्यते । यत्र विभावादिमुखेन भावानामवगमस्तत्रैव सहृदयैकसंवेद्यो रसा- स्वादोदय इति बस्तुस्वभाव एवायम् । न पर्यनुयोगपदवीमवतरति प्रामाणिकानाम् । यदाह भरतः ‘विभावानुभावव्यभिचारिसंयोगाद्रसनिप्पत्तिः' इति । यथोक्तं; - “भावसंयोजनाव्यङ्ग्यपरिसंवित्तिगोचरः ।। आस्वादनात्मानुभवो रसः काव्यार्थ उच्यते ॥ न च लोके विभावादयो भाव। वा सम्भवन्ति हेत्वादीनामेव तत्र सम्भवात् । न च विभावादयो हेत्वादयश्चेत्येक एवार्थ इति मन्तव्यम् । अन्ये हेत्वादयोऽन्ये एव विभावादयः । तेषां भिन्नलक्षणत्वात् । तथा हि । ये लोके रत्यादयो रामादि- | १ 'पर' इति खपुस्तके पाठ ,