पृष्ठम्:व्यक्तिविवेकः (राजानकरुय्यककृतव्याख्यासहितः).pdf/४३

एतत् पृष्ठम् परिष्कृतम् अस्ति

27.11.1 - 1 funna -Line ३ व्यक्तिविवेके प्रथमो विमर्शः । गताः स्थेमभाजोऽवस्थाविशेषाः केचित् त एव काव्यादौ कविप्रभृतिभिर्वर्णनाद्यर्थ- मात्मन्यनुसंहिताः सन्तो भावयन्ति तांस्तान् रसानिति भावा इत्युच्यन्ते । यदाह भरतः --- | • नानाभिनयसम्बन्धाद्भावयन्ति रसानिमान् । । यस्मान् तस्मादमी भावा विज्ञेया नाट्ययोक्तृभिः ।। ये च तेषां हेतव सीताद्याः केचित् त एव काव्यादिसमर्पिता सन्तो विभाज्यन्ते भावा एभिरिति विभावा इत्युच्यन्ते । यदाह भरतः--

  • बहवोऽथ विभाव्यन्ते वाराङ्गाभिनयाश्रयाः ।।

अनेन यस्मात् तेनाय विभाव इति सांज्ञिता. ।।' ये च तेषां केचित् कार्यरूपा मुखप्रसादादयोऽर्थास्त एव काव्याधुपदश्र्थमानाः सन्तोऽनुभावयन्ति तांस्तान् भावानित्यनुभावा इत्युच्यन्ते । यदाह भरतः -- “बागङ्गर्त्त्वाभिनयैर्यस्मादर्थोऽनुभाव्यते ।। वागङ्गोपाङ्गसंयुक्तः सोऽनुभाव इति म्मृतः ।। ये च तेषामन्तरान्तरानवस्थायिनोऽवस्थाविशेषान्तदवान्तरहेतुजनिता उत्कालिका- कारां

केचिदुत्पद्यन्ते, त एव निजनिजविभावानुभाववर्गमुखेनापदश्यमाना, सन्तो

विशेषेणाभिमुख्येन चरन्ति तेषु तेषु भावेष्विति व्यभिचारिण इत्युच्यन्ते । यदाह भरतः----‘विविधमाभिमुख्येन रसेषु चरन्तीति व्यभिचारिणः' इति । ये चैते । स्थायिव्यभिचारिसात्त्विकमेदादेकोनपञ्चाशद्भावा उक्तास्ते सर्वे व्यभिचारिण एव । केवलमेषां प्रतिनियतरूपापेक्षा व्यपदेशभेदः । तथा हि स्थायित्वं स्थायिष्वेव प्रतिनियत, न व्यभिचारिसात्विकेषु । व्यभिचारत्वं व्यभिचारिष्वेव, नेतरयोः । सात्त्विकत्वमपि सात्त्विकैप्वेव, नेतरयोरिति । तत्र स्थायिभावानामुभयी गतिः । न व्यभिचारिसात्त्विकानाम् । ते हि नित्य व्यभिचारिण एव न जातुचत् स्थायिनः प्रकल्पते । यत्तु भावाध्याये स्थायिनां लक्षणमुक्तं तघ्याभिचारिदशापन्नानामेव तेषामवगन्तव्यं नान्येषां, लक्षणवचनम्य वैयर्थ्यप्रसङ्गात् । स्थाय्यनुकरणात्मानो हि रसा इष्यन्ते, ते च प्रधानमिति तल्लक्षणमुखेनैव तेषां स्वरूपावगमसिद्धेः, तेषां बिम्बप्रतिबिम्बन्यायेनावस्थानात् , स्थायिभावेषु च निर्वेदादिष्विव व्याभि चारिणामनुपादानात् । तदुपादान हि तेषां स्थायित्वमेव स्यान्न व्याभचारित्व निर्वेदादिवत् । तस्माद्योग्यतामात्रप्रवर्तितोऽयं वर्गत्रयाविभागोपदर्शनाय व्याभिचारि- ष्वपि स्थायिव्यपदेशम्तन्मात्रविप्रलम्भकृतोऽन्येषां स्थायिभावलक्षणभ्रम इत्यलमप्र- स्तुतवस्तुविस्तरेण ।।