पृष्ठम्:व्यक्तिविवेकः (राजानकरुय्यककृतव्याख्यासहितः).pdf/४४

एतत् पृष्ठम् परिष्कृतम् अस्ति

25yerful 14s LearLar -[IF FAasaliral xxx व्यक्थिविवेके प्रथमो विमर्शः । तदेवं विभावादीनां हेत्वादीनां च कृत्रिमाकृत्रिमतया काव्यलोकविशयतया च स्वरूपभेदे विषयभेदे चावास्थिते सत्येकत्वासिद्धेर्यदा विभावादिभिर्भावेषु रत्या- दिष्वसत्येप्वेव प्रतीतिरुपजन्यते तदा तेषां तन्मात्रसारत्वात् प्रतीयमाना इति गम्या इति च व्यपदेशा मुख्यवृत्योपपद्यन्त एव । तत्प्रतीतिपरामर्श एव च रसा- स्वाद स्वाभाविक इत्युक्तम् । आस्तां वा रत्यादिर्नित्यपरोक्षः । प्रत्यक्षोऽपि ह्यर्थः साक्षात् सवेद्यमानः सचेनसा न तथा चमत्कारमातनोति यथा स एव सत्कविना वचनगोचरता गमित ’| यदुक्तम् -- “कविशक्त्यर्पिता भावाम्तन्मयीभावयुक्तितः ।। तथा स्फुरन्त्यमी काव्यान्न तथाध्यक्षत किल ।” इति । सोऽपि च तेषा न तथा स्वदते, यथा तैरेवानुमेयता नीत इति स्वभाव एवाय न पर्यनुयोगमहेति । तदुक्तम् --- "नानुमितो हेत्वायै स्वदतेऽनुमितो यथा विभावाह्य: ।। न च सुग्वयनि वाच्योऽर्थ. प्रतीयमानः स एव यथा |। इति । ध्वनिकृताप्युक्तम् -‘साररूपो ह्यर्थ स्वशब्दानभिधेयत्वेन प्रकाशित. सुतरां शोभामावहति' इति । प्रतीतिमात्रपरमार्थ च काव्यादि । तावतैव विनेयेषु विधिनिषे- धव्युत्पत्तिसिद्धेः| तदुक्तम् --‘भ्रान्थिरपि सम्बन्धत प्रमा' इति । "मणिप्रदीपप्रभयोर्मणिबुद्याभिधावतोः । | मिथ्याज्ञानाविशेषेऽपि विशेषोऽर्थक्रियां प्रति ।” इति च । तेनात्र गम्यगमकयोः सचेतसां सत्यासत्यत्वविचारो निरुपयोग एव । काव्यविषये च वाच्यव्यङ्गचप्रतीतीनां मत्यासत्यत्वविचारो निरुपयोग एवेति तत्र प्रमाणान्तरपरीक्षोपहासायैव सम्पद्यत इति । तत्र हेत्वादिभिरकृत्रिमैरकृत्रिमा एव प्रत्याय्यन्ते । तत्रैषामनुमेयत्वमेव न व्यङ्गचत्वगन्धोऽपीति कुतस्तत्र सुखा- स्वादलवोऽपि सम्भवति । एष एव लोकतः काव्यादावतिशय इत्युपपद्यत एव रत्यादौ गम्ये सुखास्वादप्रयोजनो व्यङ्गचत्वोपचार इति । मुख्यवृत्त्या द्विविध एवार्थो वाच्यो गम्यश्चेति । उपचारतस्तु व्यङ्गचस्तृतीयोऽपि समस्तीति सिद्धम् ।

वाचो गुणीकृतार्थत्वं न सम्भवति जातुचित् ।

तदर्थ तदुपादानादुदकार्थ दृतरिव ।। इति सङ्ग्रहश्लोकः । नापि वाच्यप्रतीयमानयोर्मुख्यवृत्त्या व्यङ्ग्चव्यञ्जकमावः