पृष्ठम्:व्यक्तिविवेकः (राजानकरुय्यककृतव्याख्यासहितः).pdf/४५

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

व्यक्तिविदेके प्रथमो विमर्शः ।। सम्भवति व्यक्तिलक्षणानुपपत्तेः । तथा हि । सतोऽसत एव वार्थस्य प्रकाशमानस्य सम्बन्धम्मरणानवेक्षणा प्रकाशकेन सहैव प्रकाशविषयतापत्तिभिव्यक्तिरिति तल्ल- क्षणमाचक्षते । तत्र सतोऽभिव्यक्तिलिदिधा तस्य त्रैविध्यात् । तत्र कारणात्मनि कार्यस्य शक्त्यात्मनावस्थानात् तिरोभूतम्येन्द्रियगोचरत्वापत्तिलक्षण आविर्भाव एका, यथा क्षीराद्यवस्थायां दध्यादेः । तथावस्थानानुपगमे तु सैवोत्पत्तिरित्यु- च्यते कैश्चित् । तस्यय्वविमुर्तस्यकुतश्चित् प्रतिबन्धादप्रकाशमानस्य प्रकाशकेनो- पसर्जनीकृतात्मना सहैव प्रकाशो द्वितीया, यथा प्रदीपादिना घटादेः । तदुक्तम् - | स्वज्ञानेनान्यधीहेतुः सिद्धेऽर्थे व्यञ्जको मृतः । यथा दीपोऽन्यथाभावे को विशेषोऽस्य कारकात् ॥ इति । ध्वनिकारेणाप्युक्त--स्वरूप प्रकाशयन्नेव परार्थावभासनो व्यञ्जक इत्यु- च्यते यथा प्रदीपो घटादे.' इति । तस्यैवानुभूतपूर्वस्य संस्कारात्मनान्तर्विपरिवर्तिनः कुतश्चिदव्यभिचारिणोऽर्थान्तरात् तत्प्रतिपादकाद्वा संस्कारप्रबोधनात्रं तृतीया, यथा धूमादमेः, यथा चालेख्यपुस्तकप्रतिबिम्बानुकरणादिभ्यः शब्दाच्च गवादेः । असतस्त्वेकप्रकारैव, तस्य प्रकारान्तरासम्भवाद्, यथाकलोकादिनेन्द्रचापादेः । इति । न चैतल्लक्षणं वाच्ये सङ्गच्छते । तथा हि ---सतोऽभिव्यक्तिराद्ययोरर्थयो- लक्षणं न तत्प्रतीयमानेष्वेकमपि संस्प्रष्टुं क्षमते तस्य दध्यादेरिवेन्द्रियविषय- भावापत्तिप्रसाद् घटादेरिव वाच्यार्थसहभावेनेदन्ताप्रतीतेरसम्भवात् । न च स्वरूपासंस्पर्शि लक्षणं भवति । तृतीयस्यास्तु यल्लक्षणं तदनुमानस्यैव सङ्गच्छते, न व्यक्तेः । यदुक्तं-‘त्रिरूपााल्लिङ्गाद्यदनुमेये ज्ञान तदनुमान'मिति । तच्चानुमानमेव । न ह्यदर्थान्तरप्रतीतिरनुमानमन्तरेणार्थान्तरमुर्पपद्यते । उपमानादीनां च तत्रैवान्त- भवात् । यदाहुः- ‘न चान्यदर्शनेऽन्यकल्पना युक्तातिप्रसङ्गात् । [तस्य नान्तरी- यकतायां स्यात् । न हि यथाविधसिद्धः तथाविधसन्निधानं सूचयति सामान्ये- न च सम्बन्धिनार्थप्रतिपत्तिरनुमानमिति द्वे एव प्रमाणे' इति । न च वाच्यादर्था- दर्थान्तरप्रतीतिरविनाभावसम्बन्धस्मरणमन्तरेणैव सम्भवति, सर्वस्यापि तत्प्रतीति- प्रसङ्गात् । नापि सहभावेन, धूमाग्निप्रतीत्योरिव तत्प्रतीत्योरपि क्रममावस्यैव संवेद- नाद् इत्यसम्भवो लक्षणदोषः । अथ रसाद्यपेक्षया तयोः सह्भवॆन प्रकाशो- ऽभिमत इत्युच्यते, अव्याप्तिस्तहिं लक्षणदोषः । वस्तुमात्रालङ्कारप्रकाशस्य प्रकाशकसहभावेनाव्याप्तेः । न च रसादिष्वपि विभावर्धप्रकाशनसहभावेन १. 'मुपगम्यते' इति कपुस्तके पाठ