पृष्ठम्:व्यक्तिविवेकः (राजानकरुय्यककृतव्याख्यासहितः).pdf/४७

एतत् पृष्ठम् परिष्कृतम् अस्ति

व्यक्तिविवेके प्रथमो विमर्शः १ इति । सत्यम् । किन्तु तमर्थमिति तच्छब्देनानन्तर्यात् प्रतीयमानम्यार्थस्य पर- मर्श सति पारिशेप्यादर्थो वाच्यविशेष इति स्वय विवृतत्वाचार्थशब्दो वाच्यविषय एव विज्ञायते नोभयार्थविषय इति तदवस्थो दोषः । अस्तु वोभयार्थविषयः । तथाप्यातव्याप्तिर्लक्षणदोषः, यत्र वाच्यार्थाद्वस्तुमात्रेणैकेन द्वित्रैर्वान्तरिता वस्तुमात्र. स्यैव साध्यस्य प्रतीतिस्तत्रापि ध्वनित्वापते , तल्लक्षणानुगमाविशेषात् । न च तत् तत्रेष्यते, चारुतातिवृत्ते', व्यभिचारिभावालङ्कारान्तरिताया एव तस्या ध्वनिविषयभावाभ्युपगमात्, अन्यत्र तु तद्विपर्ययात् । चारुत्वाचारुत्वनिश्चये च काव्यतत्त्वविदः प्रमाणम् । तत्रैकेन वस्तुमात्रेणान्तरिता सा यथा--- सिहिपिछकण्याऊरा वहुआ वाहस्सगव्विरी भमइ ।। मुत्ताळरइअपसाहणाण मज्झे सवत्तीणम् ॥ अत्र हि वक्ष्यमाणप्रकारेण व्याघवध्वाः सपत्नीभ्यः सौभाग्यातिरेकोऽनुमेयः । स चावरतसम्भोगसुखासङ्गनिस्सहतया पत्युर्मयूरमात्रमारणक्षमतयानुमीयमानया- न्तरितः । द्वाभ्यामन्तरिता यथा--- “वाणिअअ हल्थिदन्ता कतो अह्माण वग्धकित्ती अ । जाब ऋळिआळअमुही घरम्म परिसक्कए सोला ।' अत्र हि वक्ष्यमाणप्रकारेण वृद्धव्याधेन वाणिजकं प्रति हस्तिदन्ताद्यभावप्रतिपाद- नाय व्यापकविरुद्धकार्योपलब्धिः प्रयुक्ता । यथा मात्र तुषारस्पशों धूमादिति । हस्तिदन्तव्याघ्राजिनादिसद्भावो ह्यस्मद्हे समर्थस्य सतः सुतस्य तद्यापादनव्या- पारपरतया व्याप्तः । तद्विरुद्धं च तुषासौभाग्यातिरेकप्रयुक्तमविरतसम्भोगसुखास- जनितमस्य निस्सहत्वम् । तत्कार्यं च लुषाया विलुलितालकमुखीत्वमिति । त्रि- भिरन्तरता यथा --- विवैरीअसुरअसमए बह्म दळूण णाहिकमलम्मि । | हरिणो दाहिणणअणं चुम्बइ हिळिआउळा ऋच्छीः ।। १ शिखिपिञ्छकर्णपूरा वधूयधस्य गविणी भ्रमति । मुक्ताफलरचितप्रसाधनाना मध्ये सपत्नीनाम् ॥ २ वाणिजक ! हस्तिदन्ता कुतोऽस्माक व्याघ्रकृत्तिश्च । यावटुलितालकमुखी गृहे परिष्वकृते स्नुषा ।।। ३ विपरीतसुरतसमये ब्रह्माण दृष्ट्वा नाभिकमले । हरेदीक्षिणनयन चुम्बति हियाकुला लक्ष्मीः ॥