पृष्ठम्:व्यक्तिविवेकः (राजानकरुय्यककृतव्याख्यासहितः).pdf/४८

एतत् पृष्ठम् परिष्कृतम् अस्ति

ब्याक्तिविवेके प्रथगो विमर्शः । अन्न हि लक्ष्मीलज्ञानिवृत्तिसाव्या । तत्र च भगवतो हरेर्दक्षिणश्याक्ष्णः सूर्यात्मनो लक्ष्मीपरि चुम्बन हेतु । तद्धि तस्य तिरोधानलक्षणमरतमयमनुमापयति । सोऽपि च साहचर्यान्नाभिनलिनस्य सङ्कोचम् । सोऽपि ब्रहाणो दर्शनव्यवधानमिति त्रयाऽ- न्तरतानुमेयाईप्रतिपत्तिः । तदियमुपायपरम्परोपरोहनिराहा न रसास्वादान्तिकमु- पगन्तुमलमिति प्रहेलिकाप्रायमेतत् काव्यामित्यतिव्याप्ति । व्यभिचारिभावव्यव- हिता यथा ----

      “पत्युः शिरश्चन्द्रकलामनेन स्पृशेति सख्या परिहासपूर्वम् ।
      सा रञ्जयित्वा चरणौ कृताशीर्माल्येन ता निर्वचन जवान ।”

अत्र युक्तप्रकारेणानुमितकौतुकौत्सुक्यप्रहर्षलज्जादिव्यभि चारिभावान्तरिता गौर्या- माभिलाषिकशृङ्गारावगति । अलङ्कारव्यवाहता यथा --- लावण्यकान्तिपरिपूरितदिड्मुखेऽस्मिन् स्मरेऽधुना तव मुखे तरलायताक्षि ।। क्षोभ यदेति न मनागपि तेन मन्ये सुव्यक्तमेव जडराशिरय प्धि ।।। अन्नपि कस्याश्चिदुक्तक्रमेण वदनपूर्णेन्दुबिम्बयो रूप्यरूपकभावोऽनुमितः । तद- न्तरिता चानुकर्शगति । सेव ध्वनेविषयभावेनायगन्तव्या, नान्या । न च व्यवधानाविशेषाव्यभिचार्यलङ्कारव्यवधानपक्षेऽप्येतत् समानामिति मन्तव्य, वस्तु- मात्रस्थ व्यभिचार्यलङ्कारादीनां च भिन्नजातीयत्वात् । वःतुमात्रं ह्यनुमेयादत्यन्त विलक्षणस्वभाबमरन्देयोरीव धूमादि । व्यभिचार्यादयस्तु तच्छायानुविधायिन- स्तदुपरक्ता इव तदालिङ्गिता इवोत्पद्यन्ते न ततोऽत्यन्तविलक्षणा एवेति तव्यवधा- नमन्यदेव वरतुव्यवधानादित्यसिद्धम्तदविशेष । अलङ्कारोऽप्यलङ्कार्यान्न पृथगव- स्थातुमर्हति तयोराश्रयाश्रथिभावेनावस्थानाद् इति तद्यवधानस्याप्याविशेषोऽसिद्ध एवेति तदवस्थैवातिव्याप्तिः ।। यद्यर्थ इति वाच्योऽर्थोऽभिमतो व्याप्तिरेव सा । येनैववादिनीत्यादीवर्थस्यार्थान्तराद्गतिः ।। २१ ॥ अथोभौ तर्खतिव्याप्तित्रिबस्तुव्यवायिनि ।। प्रहेलिकादिरूपेऽपि काव्ये ध्वन्यात्मती यत. ।। २२ ।। इति सङ्ग्रहश्लोकी । केवलमत्रैवार्थस्येोभयात्मनः सामान्येन य. काव्यात्मत्वेन