पृष्ठम्:व्यक्तिविवेकः (राजानकरुय्यककृतव्याख्यासहितः).pdf/५०

एतत् पृष्ठम् परिष्कृतम् अस्ति

व्यत्किविवेके प्रथमो विमर्शः|

    • प्रतीयमानः पुनरन्य एव सोऽर्थोऽस्ति वाणीषु महाकवीनाम् ।

योऽसौ प्रसिद्धावयवातिरित्क्त्ततश्चकास्ति लावण्यमिवाङ्गनासु ।” इति । 'सरस्वती स्वादुतमं तमर्थमि' ति च पाठविपर्यासः कर्तव्यः । न त्वत्रैव 'वस्तु तदि'ति । तत्रैव हि पाठविपर्यासे पर्यायप्रत्रप्रत्रक् मभेदः पुंस्त्वनिर्देशदोषश्च परि- हृतौ भवतः । अत्र त्वेक एव तदः पुंस्त्वनिर्देशदोपः । एषैव च मेयशय्या श्रेयसी । अपि च काव्यस्य विशिष्टत्वमनुपपन्नम्, काव्यमात्रस्य ध्वनिव्यपदेशवि- षयत्वेनेष्टत्वात् तस्य रसात्मकत्वोपगमाद् । यत् स एवाह् --- “काव्यस्यात्मा स एवार्थस्तथा चादिकवेः पुरा ।। कौञ्च् द्वन्द्ववियोगोत्थ. शोक. ल्श्रोलोकत्वमागतः ।। न च तस्य विशेषः सम्भवति निरतिशयमुखास्वादलक्षणत्वात् तस्य । यदाहुः --- “पाठ्यादथ ध्रुवागानात् ततः सम्पूरिते रसे ।। तदास्बादभरैकाग्रो हृष्यत्यन्तर्मुखः क्षणम् || ततो निर्विषयस्यास्य स्वरूपावस्थितौ निजः । व्यज्यते ह्रादनिष्यन्दो येन तृप्यन्ति योगिनः ।। इति । तदभावे चास्य काव्यतैव न स्यात् । किमुत विशेष इत्यनारम्भणीयमेवैतत् प्रेक्षावतां त्याद् वैफल्यात् । कविव्यापारो हि विभावादिसंयोजनात्मा रसाभिव्य- क्त्यव्यभिचारी काव्यमुच्यते । तच्चाभिनेयानभिनेयार्थत्वेन द्विविधम् । सामान्ये- नोभयमपि च तच्छास्त्रवाद्विधिनिषेधविषयव्युत्पत्तिफलम् । केवलं व्युत्पाद्यजनजा ड्याजाड्यतारतम्यापेक्षया काव्यनाट्यशास्त्ररूपोऽयमुपायमात्रभेदो न फलभेदः । तन्नद्यं प्रख्यातरामरावणादिनायकप्रतिनायकसमाश्रयेण प्रसिद्धविधिनिषेधास्पदच- रितवर्णनगात्रात्मकम् । अपरं पुनरनुकारक्रमेण साक्षात् तत्प्रदर्शनात्मकम् यदाहुः- "अनुभावविभावाना वर्णना काव्यमुच्यते ।। तेषामेव प्रयोगस्तु नाट्यं गीतादिरञ्जितम् ॥” एवञ्च ये सुकुमारमतयः शास्त्रश्रवणादिविमुखा. सुखिनो राजपुत्रप्रभृतयः पूर्वत्रा- धिकृताः ये चात्यन्ततोऽपि जडमतयस्तावता व्युत्पादयितुमशक्याः स्त्रीनृत्यातोद्या- दिप्रसत्का उभयेऽपि तेऽभिमतवस्तुपुरस्कारेण गुडजिह्रिकया रसास्वादसुखं मुखे दत्वा तत्र कटुकौषधपानादाविव प्रवर्तयितव्याः । अन्यथा प्रवृत्तिरेवैषां न स्यात् , किमुत व्युत्पत्तिः । काव्यारम्मस्य साफल्यामिच्छता तत्प्रवृत्तिनिबन्धनभावेनास्य रसात्मक- 1, ‘फलमिच्छता' इति खपुस्तके पाठः,