एतत् पृष्ठम् परिष्कृतम् अस्ति
व्यक्तिविवेके प्रथम विमर्शः । २३
अनुमानत्वमेवात्र युक्त तल्लक्षणान्वयात् ।। असतश्चेन्द्रचापादेः का व्यक्तिः कृतिरेव सा ।। ३४ ।। कार्यत्व ह्यसतोऽपीष्टं हेतुत्वं तु विरुध्यते । सर्वसामर्थ्यविगमाद् गगनेन्दीवरादिवत् ॥ ३९ ॥ शब्दप्रयोगः प्रायेण परार्थमुपयुज्यते ।। नहि तेन विना शक्यो व्यवहारयितुं परः ।। ३६ ।। न च युक्तिनिराशंसात् तत. कश्चित् प्रवर्तते ।। निवर्तते वेत्यस्येष्टा साध्यसाधनगर्भता ।। ३७ ।।। ते प्रत्येक द्विधा ज्ञेये शाब्दत्वार्थत्वभेदतः ।। पदार्थवाक्यार्थतया ते अपि द्विविधे मते ॥ ३८ ॥ तत्र साध्यो वस्तुमात्रमलङ्कारा रसादयः ।। इति त्रिधैव तत्राचौ पद शब्दानुमानयो ।। ३९ ॥ अन्त्योऽनुमेयो भक्त्या तु तस्य व्यङ्गयत्वमुच्यते । भक्तेः प्रयोजनांशो यश्चमत्कारित्वलक्षण, ।। ४० ।। स तत्रास्तीति सोऽप्यस्य विभावाधेकहेतुकः । अत एव न लोकेऽपि चमत्कारः प्रसज्यते ॥ ४१ ॥ तत्र हेत्वादयः सन्ति न विभावादयो यत ।। न चैकार्थत्वमाशङ्क़मेषां लक्षणभेदतः ।। ४२ ॥ स्वभावश्चायमर्थानां यन्न साक्षादमी तथा । स्वदन्ते सत्कविगिरां गता गोचरतां यथा ।। ४३ ।।
इति सङ्ग्रहश्लोकाः । यत् पुनरस्यानेकशक्तिसमाश्रयत्वाच्यापारान्तरपरिकल्पनं तदर्थस्यैवोपपद्यते न शब्दस्य, तस्यानेकशक्तिसमाश्रयत्वासिद्धेः । तथा हि । एकाश्रयाः शक्तयोऽन्योन्यानपेक्षप्रवृत्तयोपाकृतपौर्वापर्यनियमा युगपदेव स्वकार्य- कारिण्यो दृष्टाः यथा दाहकत्वप्रकाशकत्वादयोऽग्नेः । न च शब्दाश्रयाः शक्तय- स्तथा दृश्यन्ते, अभ्युपगम्यन्ते वा, नियोगतोऽभिधाशक्तिपूर्वकत्वेनेतरशक्तिप्र- वृत्तिदर्शनात् । तस्माद्भिन्नाश्रया एव ता न शब्दैकसमाश्रया इत्यवसेयम् । य- श्वासावाश्रयो भिन्नः सोऽर्थ एवेति, तव्यापारस्यानुमानान्तर्भावोऽभ्युपगन्तव्य एव । तथा हि । गौर्बाहीक इत्यादौ तावद्भवादयोऽर्था बाधितवाहीकाद्यर्थान्तरैकात्म्यास्ता- दूप्यविधानान्यथानुपपत्त्या केनचिदंशेन तत्र तत्त्वमनुमापयन्ति न सर्वात्मना ।