एतत् पृष्ठम् परिष्कृतम् अस्ति
२६
व्यक्तिविवेके प्रथमो विमर्शः ।
प्रधानेतरभावेनावस्थानार्दर्थशब्दयोः । समशीर्षिकयारोपो न तयोरुपपद्यते ॥ ५० ॥ आरोपाविषये यत्र विशेषः सम्प्रतीयते । अर्थादारोपितात् तत्र गुणवृत्तिरुदाहृता ॥ 51 ॥ गुणवृत्तौ गिरा थावत् सामग्रीष्टा निबन्धनम् । सैव लिङ्गतयास्माभिरिष्यतेऽर्थान्तरं प्रति ।। ५२ ॥ न हि तत् समयाभावाद्वाच्य शब्दस्य कल्प्यते । प्रतीयमानतायां च व्यक्तमुस्यानुमेयता ।। ५३ ॥ तस्मात् स्वार्थातिरेकेण गतिर्वार्थान्तरे गिराम् । वाचकत्वाश्रयेणतो गुणवृत्तेरसम्भवः ।। 5४ ।।
ततश्च----
भक्त्या बिभर्ति चैकत्वं रूपाभेदोदयं ध्वनिः । न च नाव्याप्त्यतिव्याप्त्योरभावाल्लक्ष्यते तया ॥ ५५ ॥ सुवर्णपुष्पामित्यादौ न चाव्याप्तिः प्रसज्यते । यतः पदार्थवाक्यार्थभेदात् भक्तिद्धिोदिता ॥ 5६ ॥ अतस्मिस्तत्समारोप भक्तेलक्षणामष्यते । अर्थान्तरप्रतीत्यर्थः प्रकारः सोऽपि शस्यते ॥ 5७ ॥
ततश्च ---
रूढा ये विषयेऽन्यत्र शब्दाः स्वविषयादपि ।। लावण्याद्याः प्रसक्तास्ते न भवन्ति पदं ध्वर्नेः ॥ ५८ ।। भवन्त्येवेत्यर्थः । यतः मुख्या वृत्तिं परित्यज्य गुणवृत्त्यार्थदर्शनम् । यदुद्दिश्य फलं तत्र शब्दो नैव स्खलढुतिः ॥ 5९ ॥ वाचकत्वाश्रयेणैव गुणवृत्तिरसङ्गता । गमकत्वैकमूलस्य ध्वनेः स्याद्विषयो न किम् ॥ ६० ॥ व्यञ्जकत्वैकमूलत्वमसिद्धञ्च ध्वनेर्यतः । गमकत्वाश्रयापीष्टा गुणवृत्तिस्तदाश्रयः ॥ ३१ ॥ समिदिध्मादयः शब्दाः प्रसिद्धा गुणवृत्तयः ।। ध्वनेः पदादिव्यङ्ग्यस्य येनोदाहरणीकृताः ॥ 6२ ॥
१. ‘दनयोर्द्वयो.' इत्यपि खपुस्तके पाठः.