व्यक्तिविवेके प्रथमो विमर्शः ।। २७
तस्माद् व्युत्पत्तिशाक्तिभ्यां निबन्धो यः स्खलद्गतेः ।। शब्दस्य सोऽपि विज्ञेयोऽनुमानविषयोऽन्यवत् ॥ ६ ३ ॥ इति सड्ग्रहश्लोकाः । ',विषं भक्षय मा चास्य गृहे भुक्था' इत्यादावपि यदेत- द्विषभक्षणानुज्ञानं तदर्थप्रकरणादिसहायमेतद्गृहे भोजनस्य ततोऽपि दारुणतरप- रिणामत्वमनुमापयति । न ह्यनुन्मत्तः सुहृदादौ हितकामः सन्नस्य कचिद् भोज- ननिषेधं विदधानः अकस्माद्विषभक्षणमनुजानातीत्यवगतवक्तृप्रकरणादिस्वरूपः प्रतिपत्ता विषभक्षणानुज्ञानादेव तद्गृहभोजनस्यात्यन्तमकरणीयत्वमनुमातुमर्हति विषभक्षणानुज्ञानादेर्वाक्यार्थस्याप्रस्तुतस्यैवोपन्यासो हि पूर्वोक्तेन नयेन प्रस्तुता-
तिरिक्तार्थान्तरप्रतिपादनपरत्वात् तत्र हेतुतयावगन्तव्य इति न शब्दस्य तत्र व्या- पारः परिकल्पनीयः ।।
विषभक्षणादपि परमेतद्गृहभोजनस्य दारुणताम् । वाच्यादतोऽनुमिमते प्रकरणवक्तृस्वरूपज्ञाः ॥ ६ ४ ॥ विषभक्षणमनुमनुते न हि कश्चिदकाण्ड एव सुहृदि सुधीः । तेनात्रार्थान्तरगतिरार्थी तात्पर्यशक्तिजा न पुनः ।। ६५ ।।
इति सङ्ग्रहार्थे ।
यदप्यन्ये मन्यन्ते-वाच्यावगमोपकम प्रतीयमानार्थान्तरऻवसायपर्यन्तोऽ-
यमेक एव दीर्घदीर्घश्शब्दस्येषोरिव व्यापारः, न पुनरर्थान्तरस्य कश्चित् संवेद्यते । यथा ह्येक एवेषुर्बलवता धनुष्मता मुक्तः शत्रोरुरश्छदमुरश्च भित्त्वा जीवितमपह- रति, न च तस्य वृत्तिभेदः, तथा शब्दोऽपि सत्कविना सकृत् प्रयुक्त एवं क्रमेण स्वार्थाभिधानमर्थान्तरप्रतीतिं चैकयैव प्रवृत्त्या वितनोति । न च तस्य व्यापारभेदः कश्चित् । किञ्च यत्परः शब्दः स शब्दार्थ इति शब्दस्यैवासौ व्यापारो न्याय्यो नार्थस्येति । तदयुक्तम् । साक्षाच्छब्दस्यार्थप्रतीतिहेतुत्वासिद्धेः । पारम्पर्येण तु तस्य हेतुत्वोपगमे वस्तूनां हेतुफलभावव्यवहारनियमो न व्यवतिष्ठते । ततश्च कुला- लोऽपि सेकसलिलोपकरणभूतकुम्भं कुर्वन् मधुमास इव कुसुमविकासहेतुरिति मु- ख्यतया ख्यायेत । इत्यर्थस्यैव व्यापारोऽभ्युपगन्तुं युक्तो न शब्दस्य । न हि यः पुत्रस्य व्यापारः स पितुरेबेति मुख्यतया शक्यते वक्तुम् , तयोरन्योन्यव्यापारसा- क्ड़र्यदोषप्रसङ्गात् । किञ्चायं विषमः शरदृष्टान्तोपन्यासः । न हि यथा सायकः स्वभावत एव छेद्यभेद्याद्यर्थविषयमेकयैव वृत्त्या तत्तत्कार्य करोति, तथा शब्दः । | १, ‘स्वयमेव' इति खपुस्तके पाठ.,