पृष्ठम्:व्यक्तिविवेकः (राजानकरुय्यककृतव्याख्यासहितः).pdf/५८

एतत् पृष्ठम् परिष्कृतम् अस्ति

२८ व्यक्तिविवेके प्रथयो विगर्शः । स हि सङ्केतसापेक्षः स्वव्यापारमारभते न एवेति यत्रैवास्य सङ्केतस्तत्रैव व्याप्रियते । ततश्चाभिधेयार्थविपय एवस्य व्यापारो युक्तो नार्थान्तरविषयः, तत्र सङ्केताभावात् । तदभावेऽपि वत्र राजरिकलने सर्व. कुतश्चिदभिधेयार्थवदर्था- न्तरमपि प्रतीयात् । तस्माद्यत्र सङ्केतापेक्षा तत्रैवारय व्यापार इत्यवगन्तुं युक्तं, नार्थान्तरे, तत्र वक्ष्यमाणनयेनार्थत्यैव सदुपपतिरामर्थनादिति । यत् पुनः-

     "शब्दार्थौ  सहितौ  वककविल्यासरवालिनि।।
      बन्धे व्यवस्थितौ कव्य बहिनावादकारिणि ।।"

इत्यादिना शास्त्रादिप्रसिद्धशर्थोब्दापनिबन्यव्यतिरोकि बद्वैचित्र्यं तन्मात्रलक्षणं व- क्रत्वं नाम काव्यस्य जीवितमिनि टागनामित केत्विदाचक्षते, तदप्यसमीची- नम् । यतः प्रसिद्धोपनिवन्धवच्चतिरेकिल्लमिट शब्दार्थयोरौचित्यमात्रपर्यवसायि स्यात् , प्रसिद्धाभिधेयार्थव्यतिरेकि प्रतीक्षाशिव्यक्तिपरं वा स्यात् । प्रसिद्धप्र- स्थानातिरेकिण शब्दार्थोपनिकधरवैचिव्याप व्रसगन्तरासम्भवात् । तत्राद्यस्ता- वत् पक्षो न शङ्कनीय एव, वग्य काव्य वरूगनिरपणसामर्थ्यसिद्धस्य पृथगुपा- दानवैयर्थ्यात् । विभावाशुपनिबन्ध एव हि कविव्यापारो नापरः । ते च यथा- शास्त्रमुपनिबध्यमाना रसाभिव्यक्तेर्निबधनभाव भजाते, नान्यथा । रसात्मकं च काव्यमिति कुतस्तत्रानौचित्यसम्पर्ग. गम्भाव्यते यन्निरासार्थमित्थ काव्यलक्षण- माचक्षीरन् विचक्षणम्मन्याः । द्वितीयपक्षारिग्रहे पुनर्व्यनेरेवेदं लक्षणमनया भङ्गया- भिहितं भवति, अभिन्न ित्बाद्वस्तुनः ! अत एव चाम्य त एव प्रभेदास्तान्येवोदा- हरणानि तैरुपदर्शितानि । तञ्वायुक्तमित्युक्तं, वक्ष्यते च । प्रसिद्धं मार्गमुत्सृज्य यत्र वैचित्र्यसिद्धये। अन्यथैवोच्यते सोऽर्थः सा वकोक्तिरुदाह्लता ॥ ६६ ॥ पदवाक्यादिगम्यत्वात् स चार्थी बहुधः मतः । तेन तद्वक्रतापीष्टा बहुधैवेति तद्विद ॥६७ ॥ अत्रोच्यतेऽभिधासज्ञः शब्दस्यार्धकाशने । व्यापार एक एवेष्टो यस्त्वन्योऽर्थस्य सोऽखिलः ॥ ६८ ॥ ततश्च- वाच्यादर्थान्तर भिन्नं यदि तल्लिङ्गमस्य सः । तन्नान्तरीयकतया निबव्धो ह्यस्य लक्षणम् ।। ६९ ॥ अभेदे बहुता न स्यादुक्तेर्माार्गान्तरामहात् । तेन ध्वनिवदेषापि वकोक्तिरनुमा म किम् ॥ ७० ॥