पृष्ठम्:व्यक्तिविवेकः (राजानकरुय्यककृतव्याख्यासहितः).pdf/६०

एतत् पृष्ठम् परिष्कृतम् अस्ति

व्यक्तिविवेके प्रथमो विमर्शः ।

निबन्धनत्वात् । तस्माद्यत्प्रयोगान्वयव्यतिरेकानुविधायिनी यस्य प्रतीतिस्तयोर्वाच्य- वाचकभावव्यवहारविषयत्वमेवोपगन्तुं युक्तं नाभिव्यक्तिविषयत्वम् । यथा घटशब्द- तदर्थयोः । प्रादिप्रयोगानुविधायिनी तत्र पचतीत्यादौ प्रकर्षादिप्रतीतिरिति तेऽपि तथा भवितुमर्हन्त्येव । अन्यथा नीलोत्पलादौ सर्वस्यैव विशेषणाभिमतस्य नीलादिशब्द- म्य विशेष्यवाचिनश्र्वोत्पलादोर्विशेषणविशेष्यभावव्यवहारोऽस्तमुपगच्छेत्। तत्रापि ह्येतच्छक्यं वक्तुम् । उत्पलादयः शब्दाः सामान्यवचनाः । सामान्यानि च गर्भी- कृतविशेषाणि भवन्तीति तेषां तत्र सद्भावसिद्धौ सत्यां नीलादिशब्दा अपि तत्तद्- द्योतनमात्रव्यापाराः प्रादिवद् द्योतका भवितुमर्हन्ति नाभिधायका इति । एवञ्चा- न्तर्मात्राविपरिवर्तितया सिद्धसद्भावानां घटादीनां घटादिशब्दा अपि द्योतका एव स्युर्न वाचका इति वाच्यवाचकव्यवहारोऽस्तमियात् । तस्मात् भाक्तमेव द्योतकत्व- मुपगन्तव्यं न मुख्यम् भक्तेश्र्च प्रयोजनं वाच्यस्यार्थस्य स्फुटत्वप्रतिपत्तिः । नि- मित्तं च विशेषणविशेप्यप्रतीत्योराशुभावितया ऋमानुपलक्षणात् सहभावप्रतीतिः । द्विविधं हि विशेषणमिष्टम् अन्तरङ्गं बहिरङ्गं चेति । तत्राद्यमव्यवहितमेवार्थकारि लाक्षादिवत् स्फटिकादेः । द्वितीयमुभयरूपमयस्काऩ्तमिव लोहस्य । तद्धि व्यवहि- तमपि लोहे स्वां शक्तिमुपदधात्येव । तदपि द्विविधम् । समानाधिकरणं भिन्नाधि- करणं चेति । विशेष्योऽपि द्विविधो धात्वर्थो नामार्थश्र्वेति । तत्रोपसर्गाणां प्रायो- धात्वर्थो विषयो न नामार्थः । चादीनां तु निपातानामुभयमपि । केवलं तेषां विशे- ष्यात् पूंर्व पश्र्चात्र्ब क्रमेण प्रयोगो निय़ोगतोऽवगन्तव्यः । नान्येषां विशेषणानाम् । तदेवं विशेषणविशेष्यस्वरूपेऽवस्थिते यदेतदन्तरङ्गं विशेषणमुक्तं तद् गवादौ गो- त्वादिवद्विशेष्यस्वरूपान्तर्भूतमिवेति तत्प्रतीत्योराशुभावितया क्रमानुपलक्षणात् ,सह- भावावगमो द्योत्यद्योतकभावभ्रमहेतुः । अत एव केचिदेषां धात्वन्तर्भावमिव मन्य- मानाः ----

     "अडादीनां व्यवस्थार्थ पृथक्त्वेन प्रकल्पनम् ।
      धातूपसर्गयो. शास्त्रे धातुरेव च तादृश.॥"

इत्याद्यवोचन् । चादीनां चोपाधीनां विशेष्येभ्यो निर्मलेभ्यः स्फटिकोपलेभ्य इव लाक्षादीनामव्यबधानमेव । तेन ते यदनन्तरमुपाधीयन्ते तेष्वेव विशेषमाधातुमलं नान्यत्रेति यत्तेषां भिन्नक्रमतया क्वचिदुपादानं तदनुपपन्नमेव । अयथास्थानवि- निवेशिनो हि तेऽर्थान्तरमनभिमतमेव स्वोपरागेणोपरञ्जयेयुः । ततश्र्व प्रस्तुतार्थ- स्यासामञ्जस्यप्रसङ्गः । कथञ्चिद्वा भिन्नक्रमतयाप्यभिमतार्थसम्बन्धोपकल्पने प्रस्तु-