पृष्ठम्:व्यक्तिविवेकः (राजानकरुय्यककृतव्याख्यासहितः).pdf/६१

एतत् पृष्ठम् परिष्कृतम् अस्ति

=

==

== =

=

= व्यक्तिविवेकै प्रथमो विमर्शः । ३१ तार्थप्रतीतेर्विन्घतत्वात् तन्निबन्घनो रसास्वादोऽपि विन्घतः स्यात् शब्ददोषाणामनौ- चित्योपगमात् तस्य च रसभग्डहेतुत्वात् । । यथाहुः ---

"अनौचित्यादृते नान्यदर् रसभङ्गम्य कारणम् ।

प्रसिद्धौचित्यबन्घस्तु रसस्योपनिषत् परा ॥ इति । स्वाभाविकं ध्वनेर्युक्त व्यञ्जकत्व न दीपवत् । धूमवत् किन्तु कृतकं सम्बन्घादेरपेक्षणात् ॥ ७१ ॥ प्रादीनां द्योतकत्व यत् कैश्चिदभ्युपगम्यते । तद् भाक्तमेव तत्रेष्टुं न मुग्दर्भ तदसम्भवात् ॥ ७२ ॥ तथा हि यस्य शब्दस्य भावाभावानुसारिणी । यदर्थबुद्धिस्तस्यासौ वाच्योऽर्थ इति कथ्यते ॥ ७३ ॥ गोशब्दस्येव गौरर्थः सान्यथा त्वव्यवास्थिता । वाच्यत्वव्यवहारश्च न स्यादर्थस्य कस्यचित् ॥ ७४ ॥ प्रादिप्रयोगानुगमव्यतिरेकानुसारिणी । प्रकर्षादौ मतिस्तेन तस्य तद्वाच्यता न किम् ॥ ७५ ॥ विशेषावगमस्याशुभावादनुपलक्षणात् । क्रमस्य सहभावित्वं भ्रमो भक्तेर्निबन्धनम् ॥ ७६ ॥ विशेषण तु द्विविधमान्तरं बाह्यमेव च तत्राव्यवहितं सद्यदर्थकारी तदान्तरम् ॥ ७७ ॥ स्फटिकस्येव लाक्षादि द्वितीयमुभयात्मकम् । आयसस्येव तत्कान्तं तदपि द्विविधं मतम् ॥ ७८ ॥ असमानसमानाधिकरणत्वविभेदतः । विशेष्योऽपि द्विधा ज्ञेयो धातुनामार्थभेदतः ॥ ७९ ॥ शाब्दत्वार्थत्वभेदेन नामार्थोऽपि द्विधा मतः । तत्रोपसर्गाणां प्रायो धात्वर्थो विषयो मतः ॥ २० ॥ चादीनां तु निपातानामुभयं परिकीर्तितम् । केवलं तु विशेष्यात् स्युः पूर्वं पश्चाच्च ते क्रमात् ॥ २१ ॥ विशेषणानामन्येषां पौर्वापर्यमयन्त्रितम् । इत्थ स्थिते स्वरूपेऽस्मिन् विशेषणविशेष्ययोः ॥ २२ ॥ यदन्तरङ्गमुद्दिष्टमुभयात्माविशेषणम् । विशेष्ये मग्नमिव तत् गवि गोत्वमिव स्थितम् ॥ २३ ॥