पृष्ठम्:व्यक्तिविवेकः (राजानकरुय्यककृतव्याख्यासहितः).pdf/६६

एतत् पृष्ठम् परिष्कृतम् अस्ति

25yer= f1a1taye L atur - [Cut-Aruna-after Frara . व्यक्तिविवेके प्रथमो विमर्शः। भेदत्वादेव सिद्धेः । अन्यपरत्वं ह्युपसर्जनीकृतात्मत्वम् । तच्च ध्वनेः सामान्यं रूप- मुक्तमेव । अथात्र तदुपादीयते पूर्वत्रापि तदुपदीयताम् उभयत्रापि वा मोपादायि उभयोरपि तत्प्रकारत्वाविशेषात् । किञ्चार्थान्तरसड्क्रमितवाच्यस्य यदुदाहरणं तदग्निमार्णवक इतिवद् गुणवृत्तेरेव सङ्गच्छते तस्य गुणवृत्तिप्रकारत्वसमर्थनात् । तथा हि प्रसिद्धान्यूनानतिरिक्तभावस्यान्यस्य साधर्म्यप्रतिपत्त्यर्थमन्यत्रारोप उप- चारः । स चायमारोप्यारोपकभावात्मकतयोभयार्थविषयो वेदितव्यः । ततश्च यदैक एवार्थ एकशब्दाभिधेयः सामान्यविशेषांशपरिकल्पनेनोभयरूपोऽस्य विषयभावं भजते, तदार्थप्रकरणाद्यध्यवसितोत्कर्षापकर्षो विशेषांश एव समारोपितस्तत्र साधम्यर्ा- वगतिहेतुर्भवति यथा ‘तदमृतममृतं स इन्दुरिन्दुः’ इति । न तु सामान्यांशः विशेषस्य सामान्याव्यभिचारात्। अर्थान्तरसंक्रमितवाच्योऽप्यनुमान एवान्तर्भवति । रामादिश- ब्दा हि प्रकरणाद्यवसितोत्कृषर्ापकर्षलक्षणधर्मविशिष्टं संज्ञिनं प्रत्याययन्ति, न संज्ञि- मात्रम् अर्थान्तरं यदनुमितं धर्मरूपं तत्र संक्रमितमाश्रयभावेन परिणतं वाच्यमस्येति कृत्वा । द्विविधो ह्यनुमेयोऽर्थो धर्मरूपो धर्मिरूपश्चेति । तत्राद्योऽम्य विषयः । त- स्यैव वाच्यार्थनिष्ठतया प्रतीतेः । अन्यस्त्वन्यस्य यथा अग्निरत्र धूमादिति । ततो धर्मविशेषप्रतिपत्तौ प्रकरणादिरेव हेतुतयावगन्तव्यः, न रामादिशब्दा इति । अ- त्यन्ततिरस्कृतवाच्यस्तु पदार्थोपचार एव यथा गौर्बाहीक इति । तस्याप्यनुमा- नान्तर्भावः समर्थित एव । शब्दशक्तिमूलानुरणनरूपव्यङ्गयस्तु न सम्भवत्येव । शब्दस्याभिधाशक्तिव्यतिरेकेण शक्त्यन्तरानभ्युपगमादित्येतदुक्तं, वक्ष्यते च । नाविवक्षितवाच्यस्य ध्वनेर्युक्ता प्रकारता । न हि प्रकारस्तस्यैव स एवेत्युपपद्यते ॥ ९८ ॥ भाक्तिः पदार्थवाक्यार्थरूपत्वाद् द्विविधा मता । तद्बुद्धिश्चानुमानान्तर्भूता यदुपपादिता ॥ ९९ ॥ तत् तिरस्कृतवाच्यस्य ध्वनेभक्तेश्च का भिदा । द्वितीयोऽपि प्रकारो यः सोऽपि सङ्गच्छते कथम् ॥ १०० ॥ परस्परविरुद्धत्वाद् विवक्षातत्परत्वयोः । यः शब्दशक्तिमूलोऽन्यः प्रभेदो वर्णितो ध्बनेः ॥ १०१ ॥