पृष्ठम्:व्यक्तिविवेकः (राजानकरुय्यककृतव्याख्यासहितः).pdf/६८

एतत् पृष्ठम् परिष्कृतम् अस्ति

ड्व्व् द्वितीयो आट्व्मर्शः !

इत्याशाद्विरदक्षयाम्बुद्धटाबन्धेऽप्यसंरब्धवान् योऽसौ कुत्र च्न्कृतेरतिशय यात्वन्बिकाकेसरी ।।'

अत्र स्रह्र्ब्धवानिनि नसमासस्तावदनुपपः । तस्य हि पर्युदास एव विषयः, तत्रैव विशेषणत्वान्नञ् सुबन्तेनोत्तरपदेन सम्बन्धोपपत्तेः । तदुक्तम् --- " प्रधानत्व विधेर्यत्र प्रतिषेधेऽप्रधानता ।। पर्युदासः स विज्ञेयो यत्रोत्तरपदेन नञू ।"

इति । यथा ----- “जुगोपात्मानमत्रनतॉ भेजे धर्ममनातुरः । अगृध्नुराददे सोऽर्थमसक्तः सुखमन्वभूत् ।" न प्रसज्यप्रतिषेधः,

तम्य तद्विपरीनत्वात् । तदुक्तम् -----

" अप्राधान्यं विधेर्यन्न प्रतिषेधे प्रधानता ।। प्रसज्यप्रतिषेधोऽसौ क्रियया सह यत्र नञ् ।”

इति । यथा --- “नवजलधरः सन्नद्धोऽयं न दृप्तनिशाचरः सुरधनुरिदं दूराकृष्टं न नाम शरासनम् । अयमपि पटुर्धारासारो न बाणपरम्परा । कनकनिकषस्निग्धा विद्युत् प्रिया न ममोर्वशी" ।। इह च पर्युदासाश्रयणमसङ्गतम् अर्थन्यायुक्त्प्रसङ्गात् । संरब्धवप्रथिषेघॉ यत्राभिमतः नासंरब्धवाद्वधिः तत्रैव ऱीय्ट्ट्र्क्प्रतिषेधावगतौ नञः ऋक्य्याभिस- म्बन्धोपपत्तेः । न चासौ प्रतीयते गुणीभूतसंरम्भनिषेधस्यान्तरस्यैव संरब्धवत्स- दृशस्य विधौ प्रतीतेः । न च तत्प्रतीतो विवक्षितार्थसिद्धिः काचित् । तत्सिद्धि- पक्षे च समासानुपपत्तिः नार्थस्य विधीयमानतया प्राधान्यादुत्तरपदार्थस्य चा- नूद्यमानतया तद्विपर्ययात् समासे च' सत्यस्य विध्यनुवादभावस्थास्तमयप्रसङ्गात् । यत्र तु विपर्ययस्तत्र समासो भवत्येव । यथा ‌- “काव्यार्थतत्त्वावगमो न वृद्धाराधनं विना ।। अनिष्टवान् राजसूयं कः स्वर्ग मुख्यमश्नुते" ॥

इति । क्रियाकर्जशभागय्यॉ वाक्येऽपोट्ह्यो नी यदि । क्रियांश एवापोह्यः स्यानेष्टवानितिवत् तदा ॥ ३ ॥