पृष्ठम्:व्यक्तिविवेकः (राजानकरुय्यककृतव्याख्यासहितः).pdf/६९

एतत् पृष्ठम् परिष्कृतम् अस्ति

व्यकिविवेके द्वितीयो विमर्शः।

          अकुम्भकार इतिवद् वृत्तौ तु स्याद्विपर्ययः ।
          इत्येष नियमोऽर्थस्य शब्दशक्तिस्वभावतः ॥ ४ ॥

इत्यन्तरस्र्लोकौ । तत्रापि केचिद्य्द्यामोहान्न समासमाद्रियन्ते । यथा-----

       ‘ननु साधु कृत प्रजासृजा शशिकान्तेषु मनो न कुर्वता ।
        न हि चेतनतामवाप्य ते विरमेयुर्गलितेन केवलम् ।।'

यथा वा --- ‘गृहीतं येनासीः परिभवभयान्नोचितमपि' इति । नन्वश्राद्धभोजीत्यत्र प्रसज्यप्रतिषेधेऽपि यथा समास इप्यते तद्वदिहापि भविष्यति । संरब्धवन्निषेधश्रव प्रतिपत्स्यते नासंरब्धवद्विधिरिति प्रसज्यप्रतिषेध एवःयमस्तु कि पर्युदामाश्रय- णेन । नैवं शक्यं, यतो न तावदत्र नञ श्राद्धेनोत्तरपदार्थेनाभिसम्बन्धः कश्चित् प्रतीयते, अपि तु विशेष्यतया प्राधान्येन तोज्यर्थेनैव । तत्रापि कर्त्रेश एव प्रधानं न क्रियाशः । श्राद्धभोजनशीलो ह्यतः कर्ता प्रतीयते न तद्भोजन- मात्रं कर्तरि णिनेर्विधानात् । ततस्तदाभसम्बन्ध एव शाब्दो न क्रियाभसम्ब- न्धः । स हि सामर्थ्यादवसीयते, तदुपादानमन्तरेण कर्तृत्वानुपपत्तेः । तच्छ्रवण- मात्रविप्रलम्भकृतस्र्व्यम् प्रसज्यप्रतिषेधभ्रमः, न पुनराञ्जस्येन तत्र तद्रूपता नाम काचित् सम्भवति । सा हि वाक्यादेवावसीयते न वृत्तेः तयोः सिद्धसाध्यार्थ- निष्ठतया भिन्नार्थत्वाद् इति भवितव्यमेव तत्र समासेन । एवमसूर्येपश्यादिप्वपि द्रष्टव्यम् । इह तु प्रतिषेधस्य प्राधान्यविवक्षा, न विधेः । तत् कोऽवकाशः समा सस्य । यथा ---

      ‘भुङ्गे सदा श्राद्धमयं परांश्रवोपतापयेदित्ययथार्थमेव ।।
       सम्यक् स्वभावोंऽवगतोऽस्य यावन्न श्राद्धभोजी न परोपतापी' ।।

इत्यत्र । अत्र हि प्रतीयमानसत्वादिक्रियासमन्वयो नञर्थस्य प्राधान्येन प्रतीयते । न तु तद्विशिष्टस्योत्तरपदार्थस्य विधिरित्येष एव प्रसज्यप्रतिषेधविषयो युक्तो नान्यः । अन्यथात्रापि समासवैशसोपगमप्रसङ्गः पूर्ववद् दुर्निवारः स्याद् विशे- षाधाभावात् । तस्मादस्य नञो विधेयार्थनिष्ठतया प्रधानस्यानूद्यमानार्थपरतया तद्वि- परीतवृत्तिना संरब्धवत्पदेन सदाचारनिरतस्येव पतितेन वृत्तिर्विद्वद्भिर्नेष्यत एवेति स्थितम् ।

       नञर्थस्य विधेयत्वे निषेधस्य विपर्यये ।
       समासो नेष्यतेऽर्थस्य विपर्यासप्रसङ्गतः ॥ ५ ॥

इति अङ्ग्रहश्लोकः । किञ्च योऽसावित्यत्र यद: केवलस्यैव प्रयोगोऽनुपपन्नः । यत्र