पृष्ठम्:व्यक्तिविवेकः (राजानकरुय्यककृतव्याख्यासहितः).pdf/७२

एतत् पृष्ठम् परिष्कृतम् अस्ति

व्यक्तिविवेके द्वितीयो विमर्शः । तत्सिद्धौ हि प्रतीतेर्निराकाङ्कतैय क्यान् न तु विवादः यथा ---- 'न केवलं यो महतोऽयभाषते शृणोति तस्मादपि यः स पापभाग्' इत्यत्र । किञ्च तदभिन्नार्थ- स्वेत्स्योपगम्यमाने असौ म

-रुझुन्बितचालकैसर प्रसन्नताराधिपमण्डलाणीः ।

वियुक्तरामातुरदृष्टिवीक्षितो वसन्तकालो हनुमानिवागतः । इत्यत्र मुक्तके यच्छब्दपरामर्शापेक्षा प्रसज्येत तस्य यथोक्तवस्तुविषयत्वास- म्भवात् । “यस्य प्रकोपशिखिना परिदापितोऽभू - । दुत्फुल्लकिशुकतरुप्रतिमो मनोभू । योऽसौ जगत्रयलयस्थितिसर्गहेतु पायात् स वः शशिकलाकलितावतसः ।। इत्यत्र च तच्छब्दपरामर्शस्य पौनरुक्त्य स्यात् । कथ तर्हि यत्तदोर्विषये कविभि- रिदमेतददःप्रभृतय. शब्दा प्रयुक्ताः प्रयुज्यन्ते च । न च ह्यसति पर्यायत्वे त- स्मिन्नेवार्थे पदान्तरप्रयोगमाद्र्रियन्ते स्वस्थचेतस इति प्रयोगप्रवाहप्रामाण्यादेषां त- दभिन्नार्थता परिकल्प्यते । न हि तमन्तरेण शब्दानां तदर्थनिश्चयनिबन्धनमन्यत् किञ्चिदुत्पश्यामः । अत्रोच्यते । उक्तनयेन तावत् तेषां तदभिन्नार्थतानुपपत्तिरुप- पादितैव । यदि तु तामपत्य गतानुगतिकतया “योऽविकल्पमिदमर्थमण्डलं पश्यतीश ! निखिलं भवपुः । स्वात्मपक्षपरिपूरिते जगत्यस्य नित्यसुखिनः कुतो भयम् ।। इति ‘स्मृतिभूस्मृतिमूर्विहितो येनासौ रक्षतात् क्षतायुष्मान्' इत्यादिप्रयोगदर्शन- मात्रानुरोधेन तेषां सा परिकल्प्यते तर्हि यथादर्शनं व्यवहितानामेव अव्यवहितत्वे वा भिन्नविभक्तिकानामेव सा परिकल्प्यताम् । इतरथा तु तेषां तत्परिकल्पन- मन्याय्यमेव । तत्र हि प्रत्युत सा तयोस्तदितरपरामर्शव्यपेक्षा सुतरामुन्मज्जति यथा ‘अदेतचन्द्रान्तर्जलदलवलीलां दितनुते तदाचष्टे लोकः' इति सोऽयं पटः श्याम इति प्रकाशस्त्वया पुरस्तादुपयाचितो य' इत्यादौ च । न चासाविहावश्यं प्रयो- क्तव्यः सन् प्रयुक्त इति तदवस्थ एव दोषावकाशः । तस्मादपेतप्रक्रान्तसम्बन्ध- सहायस्यास्य यदोऽनुपपन्नप्रक्रस्यमानवस्तुसमन्वयस्यैकाकनः सार्थभ्रष्टस्येव तप- स्विनः पथिकस्य सन्मार्गोपदेशदेशिकं तच्छब्दाध्याहारमेवैकं शरणमन्तरेण नाप-