एतत् पृष्ठम् परिष्कृतम् अस्ति
व्यक्तिविवेक द्वितीयो विमर्शः ।
कवीनामेव गोचरो वाक्यार्थत्दमत्कारातिशय इति । अत्र क्रमेणोदाहरणानि । तत्र कर्मधारये यथा---
“उतिष्ठन्त्या रतान्ते भरमुरगपतौ पाणिनैकेन कृत्वा धृत्वा चान्येन वामो विगलितकबरीभारमसे वहन्त्याः । भूयस्तत्कालकान्तिद्विगुणितसुरतप्रीतिना शौरिणा वः शय्यामालिङ्गय नीतं वपुरलसलसद्वाहु लक्ष्म्याः पुनातु ||”
इत्यत्र विगलितकबरीभारत्वमलसलसद्वाहुत्व चांसवपुषोर्विशोषणे रतेरुद्दीपनवि- भावतापादनेन वाक्यार्थरय कामपि कमनीयतामावहत इति प्राधान्येन विवक्षित- त्वाद् न ताभ्या सह समासे कविना न्यग्भाव गमिते । यथा चात्रैव तत्कालका- न्तिद्विगुणितसुरतप्रीतित्व हेतुभावगर्भ विशेषण शौरेरुचितावरणलक्षणमतिशय- मादधद्विधेयतया प्राधान्येन विवक्षितमिति न तेन सह समासे निमीलितम् ।
पदमेकमनेक वा यद्विधेयार्थतां गतम् ।। न तत्समासमन्येन न चाप्यन्योन्यमर्हति ।। ११ ।।
तत्रैकमुदाहृनमेव । अनेक यथा---
"अवन्तिनाथोऽयमुदग्रबाहुर्विशालवक्षाप्न्तनुवृत्तमध्यः । आरोप्य चक्रभ्रममुप्णतेजास्त्वष्ट्रेव यत्नोल्लिखितो विभाति ||”
इति । यथा च----
“विद्वान् दारसख परं परिणतो नीवारमुष्टिंपचः सत्यज्ञाननिधिर्दधत् प्रहरण होमार्जुनीहेतुतः । रे दुःक्षत्रिय! कि त्वया मम पिता शान्तं मया पुत्रवान् नीतः कीर्त्त्यवशेषतां तदिह ते धिग्धिग् सहस्र भुजान् ॥”
इति । यथा वा--
“राज्ञो मानधनस्य कार्मुकभृतो दुर्योधनस्याग्रतः प्रत्यक्षम् कुरुबान्धवस्य मिषतः कर्णस्य शल्यस्य च । पीतं तस्य मयाद्य पाण्डववधूकेशाम्बराकर्षिणः कोष्ण जीवत एव तीक्ष्णकरजक्षुण्णादसृग् वक्षसः ।।” यथा च ------ “हे हस्त! दक्षिण ! मृतस्य शिशोर्द्विजस्य जीवातबे विसृज शूद्रमुनौ कृपाणम् ।