पृष्ठम्:व्यक्तिविवेकः (राजानकरुय्यककृतव्याख्यासहितः).pdf/७५

एतत् पृष्ठम् परिष्कृतम् अस्ति

व्यक्तिविवेके द्वितीयो विमर्शः । रामस्य पाणिरसि निर्भरगर्भखिन्न- सीताविवासनपटोः करुणा कुतस्ते ।।" ‘एवमङ्गराज ! सेनापते ! राजवल्लभ' द्रोणापहासिन् ! रक्ष भीमाद् दुश्शासनम्" इत्यादौ द्रष्टव्यम् । विध्यनुवादभावोऽपि वक्ष्यमाणनयेन विशेषणविशेष्यभावतुल्य- फल इति तत्रापि तद्वदेव समासाभावोऽवगन्तव्य । यथा --- ‘चापाचार्यस्त्रिपुरविजयी कार्तिकेयो विजेयः | शस्त्रव्यस्त सदनमुदधिर्भृरिय हन्तकार ।। अस्त्यैवैनत् किमु कृतवता रेणुकाकण्टबाधां | वद्धस्पर्धम्तव पग्शुना लञ्जते चन्द्रहास ॥" इति । प्रत्युदाहरण यथा --- “त कृपामृदुरवेक्ष्य भार्गव राधव न्खलिनवीर्यमात्मनि । स्वञ्च सहितममोघसायक व्याजहार हरसूजुमन्निभ ! इति । तत्राव्यमोघमाशुगमिति युक्तः पाठ । यथा वा ---- "स्त्रस्तान्नितम्बादवलम्बमाना पुनः नुन केसरपुष्पकाञ्चीम् । न्यासीकृता स्थानविदा म्मरेण द्वितीयमौर्वीमिव कार्मुकस्य ।|" इति । अत्र मौर्वी द्वितीयामिति युक्त पाठः । न चैवं वृत्तभङ्गाशङ्का कार्या । तस्य श्रव्यतामात्रलक्षणत्वात् । तदपेक्षयैव वसन्ततिलकादाविव गुर्वन्ततानियमस्य सक- र्णकैरत्राप्यनादृतत्वात् । अत एव यमकानुप्रासयोरिव वृत्तस्यापि शब्दालङ्कारत्व- मुपगतमस्माभिः । यथा च ---- "कारणगुणानुवृत्त्या द्वौ ज्ञाने तपसि चातिशयमाप्तौ । व्यासः पाराशर्यः स च रामो जामदग्न्य इह ।|" इति । ननु यदा विशेषणविशेष्ययोर्विध्यनुवादभावो नाभिमतस्तदा स्वरूपमात्रविवक्षाया नीलोल्पलादिवदत्रापि समासः प्रसज्येत न चेप्यत इत्यत्र हेतुर्वाच्यः । उच्यते । पारांशर्यत्वाद्यसाधारणविशेषणसामर्थ्यावसिता व्यासादय इति तेषां पया- यरूपत्वात् प्रयोग एव तावदनुपपन्नः किं पुनः समास इति पर्यायत्वमान्न तद- भावे हेतुर्नान्यः । तद्यथा---- शशाङ्कशेखरः शम्भुः पद्मजन्मा पितामह." इत्यत्र । एवं तक्षकसर्ग इत्यादाववगन्तव्यम् ।