पृष्ठम्:व्यक्तिविवेकः (राजानकरुय्यककृतव्याख्यासहितः).pdf/७६

एतत् पृष्ठम् परिष्कृतम् अस्ति

व्यक्तिविवेके द्वितीयो विमर्शः ।

लोहितस्तक्षक इति समासोऽत्रापि नेप्यते । लौहित्यस्य विधावुक्तन्यायात्तस्याप्रवृत्तितः ॥ १२ ॥

स्वरूपमात्रस्यतौ तु लौहित्याव्यभिचारतः ।। उष्णोऽग्निरितिवत् पक्षो न चास्त्यन्यन्तदत्यये ।। १३ ।।

इत्यन्तश्लोकौ । बहुव्रीहौ यथा ---

¨येन स्थलीकृतो विन्ध्यो येनाचान्तः पयोनिधिः ।

वातापिस्तापितो येन स मुनिः श्रेयसेऽस्तु वः ॥” ।

इति । अत्र विन्ध्यादिविषयत्वेन स्थलीकरणादि यद्विशेषणतयोपात्त तत्तत्कर्मकर्तुर्मु- नेरातदुष्करकारतया कमपि प्रभावप्रकर्षमवद्योतयति विन्ध्यस्य प्रतिदिवससमुछा- याच्छादितार्कप्रकाशम्य जगदान्ध्यविधायित्वात् पयोनिधेरगाधत्वादपारत्वाच्च वा- तापेः रवमायापरिग्रहअस्तसमस्तलोकत्वात् । ततस्तत् प्राधान्येन विवक्षितमिति न तैः सह समासे निर्जीवीकृत । प्रत्युदाहरण यथा ---- “यः स्थलीकृतविन्ध्याद्रिराचान्तापारवारिधिः ।। यश्च तापितवातापिः स मुनि. श्रेयसेऽस्तु वे ॥ इति । केचित् पुनरनयोरुदाहरणप्रत्युदाहरणयोरर्थस्योत्कर्षापकर्षप्रतीतिभेदो न क- श्चिदुपलक्ष्यत इति मन्यन्ते । त ईद प्रष्टव्याः । कि सर्वेष्वेव समासेप्वियं तदप्र- तीति. उत बहुव्रीहावेवाय शाप इति । तत्र यदि सर्वेष्वेवेत्यभ्युपगमस्तहिं सहृ- दयाः साक्षिणः पृच्छ्यन्ता वय तावन्महदन्तरमेतयोः प्रतीत्योः पश्यामः । अर्थ बहुव्रीहावेवेल्युच्यते । तदयुक्तम् । न हि प्रतीतिभेदहेतौ प्रतीतिसामथ्र्ये सत्य- कस्मात् तदसम्भवो भणितु न्याय्य. ! एवं हि क्षित्यादिसामग्रयामाविकलायामकु- रादिकार्योत्पादाभावाभ्युपगमोऽपि प्रसज्थेतेति सर्वत्रैवार्य प्रतीतिभेदोऽभ्युपगन्तव्यः । नैव वा कुत्रचित् । न पुनरिदमर्थजरतीयं लभ्यते । इह वा प्रतीतिवैचित्र्यं स्पष्ट- तरमवधारयतु मतिमान् । यत्र विदभावाभिधित्सयैव पदार्थानामुपनिबन्ध- स्तत्रापि हि प्रधानेतरभावविवक्षानिबन्धनौ समासस्य भावाभावावुपगतावेव । यथा --- सूर्याचन्द्रमसौ यस्य मातामहपितामहौ । स्वयं वृत. पतिभ्यामुर्बश्या च भुवा च यः ॥” इति । अन्न हि त्रैलोक्यैकालङ्कारभूतौ चराचरस्य जगतो जीवितायमानौ भग- | १ ‘तप प्रभाव' इति खपुस्तके पाठ