पृष्ठम्:व्यक्तिविवेकः (राजानकरुय्यककृतव्याख्यासहितः).pdf/७८

एतत् पृष्ठम् परिष्कृतम् अस्ति

व्यक्तिविवेके द्वितीयो विगर्शः ।

 सह समासे गुणतां नीतम् । कर्त्रादीनाम्  कारकाणामनेकेषां समशीर्षिकया विशेषण-
 भावेन यदुपादान स दून्दून्य विषय इति तत्स्वरूपनिरूपणावसर एव तेषां प्राधा-
 न्यमप्राधान्यं चाभिधारयत इति न तदुदाहरणमिह प्रदर्शितम् । नापि विध्यनु-
 वादभावोदाहरण तस्य विशेषणविशेष्यभावतुल्यफलतया तत्समानवृत्तान्तत्वोप-
 पादनात् । प्रत्युदाहरणं यथा ---- ‘यस्यावमत्य गुरुदत्तमिदं कुठारं डिम्भोऽपि राम
 इति नाम पदस्य हर्त्ता' इति । कर्मणो यथा ----
  "कृतककुपितैर्बाप्पाम्भोभिः सदैन्यविलोकितै-
   र्वनमसि गता यस्य प्रीत्या धृतापि तथाम्बया ।
  नवजलधरश्यामाः पश्यन् दिशो भवतीम् विना
   कठिनहृदयो जीवत्येव प्रिये ! स तव प्रिय ॥"
 इति । अत्र वनमिति यद् गमनक्रियाया सीताविशेषणभूतायाः कर्मभावेन विशे-
 षण तत् तम्या रामप्रीतिप्रकर्षयुक्ताया अन्यकुलमाहिलादुर्लभ दुप्करकारित्व नामो-
 त्कर्वमर्पयति वनवासदु.खम्यातिकष्टत्वात् । स चोत्कर्षो रामस्य रतेरुद्दीपनतां प्रति-
 पद्यत इति प्रधान न गतेत्यनेन सह समासे तिरस्कृतम् । यथा च--‘गुर्वर्थमथीं
 श्रुतपारदृश्वा रधो सकाशादनवाप्य कामम्' इति । अत्र गुर्वर्थमित्यर्थिनोऽर्थन-
 क्रियामुखेन यद्विशेषण तत् तम्य श्र्लाद्यतातिशयाधानद्वारेण रघोरुत्साहपरिपोषे
 पर्यवस्यतीति प्राधान्येन विवक्षितत्वान्नार्थिना सह समासे सतामवगतता गामितम् ।
 यथा च ‘संवर्धितानां सुतनिर्विशेषम्' इति । प्रत्युदाहरणं यथा-‘प्रदक्षिणक्रिया-
 तीतस्तस्या. कोपमजीजनः” इति ‘तमभ्यनन्दत् प्रथमप्रबोधितः प्रजेश्वरः शासन-
 हारिणा हरेः' इति यथाकामार्चितानामिति यथाकालप्रबोधनामिति च । कर-
 णस्य यथा -
     “आलोकमार्गे सहसा व्रजन्त्या कयाचिदुद्वेष्टनवान्तमाल्यः ।
     बन्धुं न सम्भावित एव तावत् करेण रुद्धोऽपि च केशहस्तः ।।"
 इति । अत्र करेणेति यत् केशहस्तकर्मकस्य सम्भावितम्य रोधनस्य करणभावेन
 विशेषणं तत् तस्याः कस्याश्र्विद्रभसौत्सुक्यप्रहर्षप्रकर्षरूपमतिशय प्रतिपादयद्वधू-
 वरयो रूपसम्पदमसाधारणीमभिव्यनक्ति यदवलोकनव्यवधानापादिनीम् ताविती-
 मपि कालकलां विन्नायमानां मन्यमानयानया सतत स्वाधीनेनैकेन करकमलेन रोधो-
 ऽप्यस्य न कृतः । तेन तत् प्रधानामिति न रुद्ध इत्यनेन सह समासेऽस्तमुपनी-
 तम् । यथा ३ ----