पृष्ठम्:व्यक्तिविवेकः (राजानकरुय्यककृतव्याख्यासहितः).pdf/८६

एतत् पृष्ठम् परिष्कृतम् अस्ति

व्यक्तिविवेके द्वितीयो विमर्शः ।। प्रकरणकाक्वादिसखो यग्यारोऽर्थान्तरं प्रकाशयति ।। इष्टार्थभङ्गभीतेः शब्दां न समारामर्हति सः ।। २५ ।। इति सङ्ग्रहार्था । इत्थमवस्थिते समासासमाप्तयोर्थिदयविभागप्रतिनियमे सति यदेतदिहा- म्बिकाया. केसारिणो विशेषणभादवेनोपादानं तत् किभितरकेसरिव्यावृत्तिमात्र- फलम् आहोत्विदसमासे वा समासादितभगवतीपादार्पणप्रसादोपनतावश्वातिशायि- शौर्यातिरेकप्रतिपादनप्रयोजनम् । तत्र प्रथमपक्षे तस्य केसरि विवक्षितजाति- मात्रविहितहेवाकातिरिक्तचमत्कारातिया विभवोऽन्यकेमरि इव निर्जिवन्धन एव स्यात् । न हीतरेभ्योऽन्यसम्याधभ्यः - व्रत त्रेयोऽपि वा व्यावृत्तस्य त(याम्बिका- सम्बन्धमात्रात् तत्त्या. कामप्युपकारकनिकननामादयत एचाकमात् तथाविधचम- त्काराविर्भावः सम्भाव्यत । अथ कात्य तरावच्छिन्नो विशिष्ट एव केसरी केसरि- शब्देनात्राभिमतः यत्र रवजातिनियत एव से तादृशोऽतिशयो येनासावितरके- सरिसाधारणेन हेवाकलवेन लज्जमान. करिकीटजलदशकलायज्ञया दिग्द्विरदप्रळय- पयोदघटाबन्थेऽपि न संरभते, यथा ‘मे इन्तु हरेर्थिङ्गुमो हन्तु' इत्यत्र विहङ्गम- शब्देन विहङ्गमविशेषो गरुडजात्यवच्छिन्नः कश्चिदेव प्रत्याय्यते । तत्र च यथा भग- वतो हरेरतिशयाधानानपेक्षयेव सम्बन्धमत्राद्वीषेपणभावन्तद्वदिहापि भविष्यती यु- च्यते । तदप्ययुक्त ३ । भगवय सुप्रसन्न-पर्क टूयाय कल्याचिदेवविधत्य केसरि- विशेषस्य भगवतीवाहनत्वेनाप्रसिद्धः । न चायनर्थः कवेराभप्रेतः । तथा ह्यसमाभि- योगाभमुखीभूतभगवत्सरस्वतीप्रमादादिलासाभान्यवैदुप्यातिशयशालिनमात्मानं । मन्यमानस्य कस्यचित् ६ वेरितरमनीधिमात्रसमुचितेनाचरितेन लज्जमानस्य मह- तोऽपि तज्जातीयानगणयतो निजगुणगरिमोद्दामदर्पकण्डूविनोदसुखसमाश्रयमेनुरूप- मपरमपश्यतः सहृदयचूडामणिमानिनो विमनसः समानधर्माणमप्रकृतमेवाम्बिका- केसरिणं पुरस्कृत्य स्वाभिप्रायाधिकरणनेतत्। न च तत्र स्वाभाविक एव कवेर्दियाच- मत्कारातिशयलाभोऽभिमतः अपि तु सरस्वतीयादप्रसादजनित एव । तस्याश्चात्मन- श्चोभयोरपि बिम्बप्रतिबिम्बभाबेनाम्बिकाकेसरिणोरुपादानात् । द्वितीयपक्षपरिग्रहे पुन- र्न भवितव्यमेव समासेन अम्बिकाया विशे पणभूनाया उत्साह पारपोषपर्यवसायिकेस- रिचमत्कारातिशयाधाननिबन्धनभावेन विवेयतया प्राधान्येन विवक्षितत्वात्ं समासे | १, ‘मात्मा” इति खपुस्तके पाठः ।