पृष्ठम्:व्यक्तिविवेकः (राजानकरुय्यककृतव्याख्यासहितः).pdf/८९

एतत् पृष्ठम् परिष्कृतम् अस्ति

व्यक्तिविवेके द्वितीयो विमर्शः । इति । तेन प्रत्यवोचत इत्यत्र पाठो युक्तः । यथा च----- नाथे निशाया नियतेर्नियोगादस्त गते हन्त निशापि याता । कुलाङ्गनानां हि दशानुरूप नातः पर भद्रतर ममप्ति। इति । अत्र हि गता निशापीति युक्त पाठ । नचैव शब्दपुनरुक्तिदोषप्रसङ्गः यथान्ये मन्यन्ते ‘नैकं पदं द्वि: प्रयोज्य प्रायेण' इति, तयोर्भिन्नविषयत्वात् । यथो- द्देशं हि प्रातिनिर्देशोऽस्य विषयः । उद्देश्यप्रतिनिर्देश्यभावाभावाविषयम्तु शब्दपुनरु- क्तिदोष इति कुतस्तस्य प्रसङ्ग । व्रजत. क्व तात । वजसीति परिचयगतार्थमस्फुटम् ।। धैर्यमभिनदुदित शिशुना जननानिभर्सनविवृद्धमन्युना ।।। इत्यत्र शिशुना ब्रजतिरेव प्रयुक्तो न वजति., तत्रैव परिचयगतार्थत्वास्फुटत्वधैर्य- भेदित्वसम्भवात् । केवलं शक्तिवैकल्याद्रेफोऽनेन नोच्चारित इति प्रत्युदाहरणमेतत् । सर्वनामप्रक्रमभेदो यथा ---- ‘ते हिमालयमामन्व्य पुनः प्रेक्ष्य च शूलिनम् ।। सिद्ध चास्मै निवेद्यार्थ तद्विसृष्टाः खमुद्ययु. ॥" अत्र हि भगवन्त शूलिनं प्रक्रान्तमिदमा परामृश्य तेनैवोक्तरीत्या तत्परामर्श. कर्तुं युक्तो न तदा तयोर्देवदत्तयज्ञदत्तशब्दयोरिव भिन्नार्थत्वात् । न चासौ कृत इति सर्वनामप्रक्रमभेदः । न चैव यत्तदारिदमेतददसा चाभिन्नार्थत्वेऽप्येतद्दोषविषयत्व- प्रसङ्गः । तेषामुक्तप्रकारेण स्वभावतोऽन्योन्यापेक्षसम्बन्धोपपादनात् । तेनेदमादि- भिजिभिस्तस्य परामर्शो, न तदेति स्थितम् । प्रत्ययप्रक्रमभेदो यथा - रुदता कुत एवं सा पुनर्भवता नानुमृतेरवाप्यते । परलोकजुषां स्वकर्मभिर्गतयो भिन्नपथाः शरीरिणाम् ।” इति । अत्र हि ‘कुत एव तु सानुरोदना'दिति युक्त. पाठः । यथा च- यशोऽधिगन्तु सुखलिप्सया वा मनुष्यसंख्यामतिवर्तितुं वा ।। निरुत्सुकानामाभियोगभाजां समुत्सुकेवाङ्कखुपैति सिद्धः ।। इदं चापरमत्र प्रक्रमभेदानुषङ्गि दोषान्तरमप्याविर्भवति, योऽयं विकल्पार्थवृत्तेव- शब्दस्य समुच्चयार्थस्येव चशब्दस्याविषय एव प्रयोग इति वक्ष्यते । तेन ‘यशो- ऽधिगन्तुं सुखमीहितुं वेति युक्तः पाठः ।। १. मृतापि लभ्यते' इति खपुस्तके पाठ, २. 'हि देहिनाम्' इति खपुस्तके पाठः,