पृष्ठम्:व्यक्तिविवेकः (राजानकरुय्यककृतव्याख्यासहितः).pdf/९३

एतत् पृष्ठम् परिष्कृतम् अस्ति

व्यक्तिविवेके द्वितीयो विमर्शः । दोषः तस्याप्युक्तयुक्त्या रसभङ्गपर्यवसायित्वात् । तेनायमत्र पाठः पठितव्यः । ‘नियमयन्नसतः स नराधिप' इति । एवञ्च विभक्तिप्रक्रममेदश्चशब्द- स्तसमुच्चयविषयभावः क्रमभेददुष्टश्च परिहृतौ भवतः । एवमन्येऽप्यवगन्तव्याः । एषां चान्योन्यसाङ्कर्याल्लोष्टसञ्चारकमेण बहवः प्रक्रममेदप्रकाराः समुद्भवन्ति । ते स्वयमेवाभ्यूह्माः । तद्यथा--

        'नियता लघुता निरायतेरगरीयान्न पद नृपश्रियः ।'

इति । अत्र हि द्वयोः प्रकृतिप्रत्यययो. प्रक्रमभेदः । तेन ‘न लघुर्जातु पद नृपश्रिय' इति युक्तः पाठः । आर्थः प्रक्रमभेदो यथा अनन्तरोदाहरणयोराद्यमाहितविपर्ययम् । तद्यथा---

        " मत्तता दयितसङ्गमभूषा भूषयत्यसमसायकलक्ष्मीम् ।
          साप्यनूननवयौवनयोग तद् वपुस्तदपि चारुतरत्वम् ।।"

इति । अत्रापि हि ‘मत्ततां दयितसङ्गतिरेषा' इत्युचितं पाठ: । क्रमप्रक्रमभेदो यथा---

        “तव कुसुमशरत्वं शीतरश्मित्वमिन्दो-
           र्व्दयमिदमयथार्थ दृश्यते मद्विधेषु ।
         विसृजति हिमगभैरग्निमिन्दुर्मयूखै-
           स्त्वमपि कुसुमबाणान् वज्रसारीकरोषि ।”

इति ।

   ननु च प्रकृतिप्रत्ययपर्यायादीनां प्रक्रान्तानां भेदेऽपि प्रधानभूतस्यार्थस्या-

भेदाच्छब्दमात्रस्य भेदे सति न किञ्चिदेकरसायाः प्रतीतेः परिस्वलनमुपपद्यत इति कथमयं प्रकृत्यादिप्रक्रमभेदो नाम शब्दानौचित्यमित्युक्तम् । उच्यते । सर्व एवायमेवञ्जातीयः प्रक्रमभेदः प्रायेण विध्यनुवादभावप्रकार इत्यवगन्तव्यम् । न च

तबाप्यसत्यर्थमेदे शब्दभेदमाद्रियन्ते वक्तार. । यथा---
       "पदधरदलमाश्रितं प्रियाया वदनसरोरुहसाम्यमेत युश्च ।
        तदमृतममृतं स इन्दुरिन्दुर्विषमितरत् तमसा समस्तथान्यः॥”
          इति । अस्त्येवम् । यस्त्वयमन्यः शब्द आर्थश्चेति द्विविधः प्रक्रममेद  उक्तः 

सोऽनुपपछः । यतः 'चारुता वपुरभूषयदासा' मित्यादौ भूषणभूष्यभावादिरूपं किमपि वस्तु प्रत्याय्यम् वर्तते । तञ्च शब्दार्थादुभाभ्यामपि वा प्रतीयताम् । कस्तत्र प्रक्रमभेद- नियम प्रत्यभिनिवेशः यद्भेदाभेदाम्यामनौचित्यमौचित्य च स्यात् । नहि