पृष्ठम्:व्यक्तिविवेकः (राजानकरुय्यककृतव्याख्यासहितः).pdf/९४

एतत् पृष्ठम् परिष्कृतम् अस्ति

व्याक्तिववेके द्वितीय विमर्शः ।

  • शुचि भूषयति श्रुतं ब्युः प्रशमस्तस्य भवत्यलङ्क्रिया ।

प्रशमाभरणः पराक्रमः स नयापादितासिद्धिभूषणः ।। इत्यादौ सत्यपि प्रतीतिपरिम्खलने नानौचित्यसंम्पर्शः कश्चिदुपलभ्यत इति तदेतद- विदितशब्दार्थव्यापाराविभागन्यैवाभिधानम् । अन्यो हि शब्दव्यापारविषयोऽर्थेऽन्य- श्वार्थव्यापारविषयः । तत्र यः प्राधान्येन प्रतिपादयतुमिप्यते स शब्दव्यापारवि- षयः, तम्य साक्षात् तदसिसम्बन्धसम्भवात् । अन्यत्वर्थव्यापारविषयो विपर्य- यात् । एवञ्च सति यदाय भूषणभूप्यभावः प्राधान्येन वक्तुं प्रक्रम्यते तदा शब्द- व्यापार विषयो भवितुमर्हति नार्थव्यापारन्येति विषयविभागे व्यवस्थिते सति तयोर्यदन्यथाकरणं तदेकरसाया. प्रतीतेः परिस्खलनहेतुर्भवत्यनौचित्यमि- त्युक्तं यथा पूर्वोक्त उदाहरणद्रये । यत् पुनः ‘शुचि भूषयती'त्यादौ सत्यपि प्रक्र- मभेददोषे नानौचित्यसंम्पर्श कश्चित् संवेद्यत इत्युक्त, तत्र ‘वपुषः शुचि भूषणं श्रुत मिति, 'तां मदुस्तमपि वल्लभसङ्ग इति चोभयत्रापि पाठाविपर्यासात् प्रक्रमभेद- दोषद्वये परिहृते सत्यभयो प्रतीत्योर्यादृशमौचित्यमनौचित्य वऻविर्भवति तत्प्रतीति- परमार्थविदः सहृदया एवं विवेक्तुमलामति त एव प्रष्टव्या । नान्ये । ते ह्युभय- त्रापि सादृश्यमेवावगच्छन्ति । यदि वा शुचि भूषयतीत्यादौ भूषणभूण्यभावशृङ्ख- लाया यथासम्भवं भाङ्गिभणिनिर्विवैचित्र्यमानं कवेर्विवक्षित, तच्च निव्यूॊढमिति तदप- हृतचेतसा प्रतीतिस्खलनखेदानवधारणम् । अथ यदि शब्दव्यापारविषयस्यैवार्थस्य प्राधान्यं नान्यस्येत्युच्यते, तर्हि चक्रारि ।तप्रसभे’त्यादौ ‘लावण्यकान्तिपारिपूरित- दिड्मुखेऽस्मिन्' इत्यादौ ‘कृतककुपितर्बाप्पाम्भोभरित्यादौ च वस्तुमात्रस्यालङ्का- रस्य रसादेश्च प्रतीयमानस्यार्थस्यावाच्यस्यैव प्राधान्यं न स्यात् । तच्चानिष्टं भवति । तयोरामधूमयोरिद गम्यगमकभावेनावस्थानात् प्रधानेतरमावस्यावश्याभ्युपगम्य- त्वात् । अत्रोच्यते । प्रतीत्यपेक्षमनयो. प्राधान्यमप्राधान्य चावस्थाप्यते । वाच्यस्य प्रतीतिः शब्दव्यापारविषय इति तस्य प्राधान्यमवस्थाप्यते । प्रतीयमानस्य पुनर- न्यथेति तस्याप्राधान्यमेवेत्युक्तम् । यत् पुनर्वस्तुमात्रादीनां प्राधान्यमवस्थाप्यते, तद्वाच्यप्रतीयमानयोधूमाग्न्योरिव गम्यगमकभावापक्षयैव न प्रतीत्यपेक्षया । तदपेक्ष. यैव च क्वचिद्वाच्यस्याप्यप्राधान्यभुच्यते । ननु यदि प्रतीतेरेकरसप्रसृतायाः परिस्ख. लनहेतुत्वादयं प्रक्रमभेददोषोऽनौचित्यमित्युच्यते तदिदानीभेकस्मिन्नेव वस्तुनि निवॆनियमाने महाकवीना या विचित्रार्थभङ्गिभणितयोऽलङ्कारसंज्ञास्तास्वप्ययं प्रक्रम- भेददोषो दुनिषेधः स्याद विशेषाभावात् । मैवं वोचः । तत्राप्यस्माभिरयमिष्यत एव । कथं तर्हि वैरस्य न प्रकाशते । तस्याङ्गनावदलेन्दुबिम्बगतस्येव कळङ्कले- शस्य स्वादिष्ठाभिरलङ्कारपरम्पराभरभिभूयमानत्वाद्वाक्यभेदाञ्चेति ब्रूमः। यदुक्तम्- | १, “बर्णय' इति खपुस्तक पाठ.