पृष्ठम्:व्यक्तिविवेकः (राजानकरुय्यककृतव्याख्यासहितः).pdf/९५

एतत् पृष्ठम् परिष्कृतम् अस्ति

व्यक्तिविवेके द्वितीयो विमर्श । "एको हि दोषो गुणसन्निपाते निमज्जतीन्दोः किरणोप्यिवाङ्क:।" इति । न तु तावतासौ नास्त्येवेति शक्यः कल्पयितु तत्सद्भावस्य न्यायसिद्ध- त्वात् । न हि भङ्गिमणितिविषमे वर्त्मनि प्रवर्त्तमाना प्रतीतिरपहित्खतिक्रमेणैव प्रदर्तत इत्युपपद्यते कारणभेदस्यापि कार्यभेदहेतुत्वोपगमात् । तदेतदुक्त भवति सर्व एव भणितिप्रकारः प्रक्रमभेदम्य विषय इति । स च विविच्यमानो वाच्यप्रती- यमानार्थनिष्ठ एव पर्यवस्यतीति शाब्दश्चार्थश्चेति तथैव द्वैविध्येन प्रतिपादितः । वस्तुप्रक्रमभेदो यथा ‘इय गेहे' इति । अत्र प्रथम पादे साक्षान्नायिकायाः स्वरूपं वर्णयितुमुपक्रम्योतरत्र भेदेन तदीयस्पशादिवर्णन निर्वाहितमिति बस्तुप्रक्रमभेदो दोषः । ननूभयत्राप्यर्थतस्तत्स्वरूपप्रकर्षप्रतीति' पर्यवत्यतीति कथमयं दोषः । सत्यम् । स्यादेवं यद्यसावुभयत्राप्यसञ्जातपरिस्खलनखेदवैरत्या सत्येकरसैव पर्य- बस्येत् । न चोक्तनयेनैतत्सम्भवतीति दोषतयैवायमुक्त. । तेन ‘मुखं पूर्णश्चन्द्रो बपुरमृतवर्तिर्नयनयोः' इत्येवमयं पाठः परिणमयितव्यः । यथा च--- तरङ्गय दृशोऽङ्गने ! पततु चित्रमिन्दीवरं स्फुटीकुरु रदच्छद व्रजतु विद्रुम, श्वेतताम् । क्षणं वपुरपावृणु स्पृशतु काञ्चन कालिका- मुदञ्चय मनाङ् मुखं भवतु च द्विचन्द्रम् नभः ।। " अत्र युपमानानामिन्दीवरादीना निन्दाद्वारेण नयनादीनामु भेयाना यत् तेभ्योऽति- शयलक्षणं वस्तु वक्तु प्रक्रान्त तस्यानिर्वाहाद् भेद. मुखचन्द्रयो. सादृश्यप्रतिपा- दनमात्रपर्यवसानात् । तदेवमत्र पाठः पाठतव्यः । ‘उदञ्चय मनाङ् मुखं भवतु लक्ष्यलक्ष्मा शशी' । यथा च-

  • तद्वकं यदि मुद्रिता शशिकथा तश्चेत् स्मितं को सुधा

सा चेत् कान्तिरतन्त्रमेव कनकं ताश्चेद् गिरो धिड् मधु । सा दृष्टिर्यदि हारितं कुवलयैः कि वा बहु ब्रूमहे । यत्सत्यं पुनरुक्तवस्तुविरसः सर्गक्रमो वेधसः । इत्यत्राप्युपमानादुपमेयस्यातिरेकलक्षणं यद्वस्तु वक्तुभिष्ट तस्यार्थान्तरन्यासमुखेन प्रक्रमभेदः वस्तुसर्गपौनरुक्त्यस्य सादृश्यमात्रपर्यवसानादिति । तेन ‘पुनरुक्तव- स्तुविमुख' इत्यत्र युक्तः पाठः । दोषोऽयमेवञ्जातीयकानामर्थदोषाणामन्येषामप्युप- लक्षणम् । तेन 'तपेन वर्षा' इत्याद्यपाकृतं भवति । ननु कर्तृप्रक्रमभेदोऽपीह कृस्मान्न प्रदर्शितः । असम्भवादिति ब्रूम. । यस्तु क्वचिन् कविभि: प्रयुज्यमानो