पृष्ठम्:शङ्करविजयः.djvu/१३३

एतत् पृष्ठम् परिष्कृतम् अस्ति
109
अष्टमस्सर्गः

विरक्तिमूलं मनसो विशुद्धिं
तन्मूलमाहुर्महतां निषेवाम ।
भवादृशस्तेन च दूरदेशे
परोपकाराय रसामटन्तः ॥ ४९ ॥

अज्ञातगोत्रा विदितात्मतत्वा
लोकस्य दृष्ट्या जडवद्विभान्तः ।
चरन्ति भूतान्यनुकम्पमाना-
स्सन्तो यदृच्छोपगतोप​भोग्याः1 ॥ ५० ॥

चरन्ति तीर्थान्यपि सङ्ग्र​हीतुं
लोकं महान्तो ननु शुद्धभावाः ।
शुद्धात्मविद्याक्षपितोरुपापाः
तज्जुष्टमम्भो निग​न्दन्ति तीर्थम् ॥ ५१ ॥

वस्तव्यमत्र कतिचिद्दिवसानि विद्वन्
त्वद्दर्शनं वितनुते 2मुदमाधिहन्त्रीम् ।
एष्यद्वियोगचकिता जनतेयमास्ते
दुःखं गतेऽत्र 3भवितेति भवत्यसङ्गे ॥ ५२ ॥

संयुनक्ति वियुनक्ति देहिनौ
दैवमेव परमं मनागपि ।
इष्टसङ्गतिनिवृत्तिकालयो-
र्निर्विकारहृदयो भवेन्नरः ॥ ५३ ॥

मध्याह्नकाले क्षुधितस्तृषार्तः
क्व​ मेऽन्नदातेति वदन्नुपैति ।
यस्तस्य निर्वापयिता क्षुधार्तेः
कस्तस्य पुण्यं वदितुं क्षमेत ॥ ५४ ॥


1का. भोग्याः । 2अ. हर्न्तृ ।

3अ. अत्रभवतीति ।