पृष्ठम्:शङ्करविजयः.djvu/१४०

एतत् पृष्ठम् परिष्कृतम् अस्ति
116
शङ्करविजये

पुरेव पार्वाब्धिमहं पिबामि
1शुष्कीकृतेन प्रतियाहि लङ्काम् ।
एवं मया कीर्तिरुपार्जिता स्यात्
बद्धे तु वार्घौ तव 2सोर्जिता स्यात् ॥ ९१ ॥

सेतुं वार्घौ बन्धयित्वा जहि त्वं
दुष्टं चौर्याद्येन​ सीता हृतासीत् ।
प्राप्नोषि त्वं कीर्तिमाचन्द्रतारं
तेनात्राब्धिं बन्धय त्वं कपीन्द्रैः ॥ ९२ ॥

इत्थं यत्र प्रेरितोऽगस्त्यवाचा
सेतुं रामो बन्धयामास वार्घौ ।
तुङ्गैः शुङ्गैर्वानरैस्तेन गत्वा
तं हत्वाऽऽजौ जानकीमानिनाय ॥ ९३ ॥

तत्रोषित्वा घस्त्र​मेकं मुनीन्द्रः
पुण्यं पश्यन् सेतुविस्तारमग्र्यम् ।
गन्धाहार्यं पुण्यतीर्थं जगाम
यत्रोमेशस्संनिधत्ते भवान्या ॥ ९४ ॥

स्नात्वा स्नात्वा तीर्थवर्येषु भिक्षुः
पावंपावं रामनाथं ददर्श ।
स्तावंस्तावं पूजयामास भक्त्या
तं चाप्राक्षीच्छिष्यसङ्घो मुनीन्द्रम् ॥ ९५ ॥

ब्रूह्यस्मभ्यं देवदेवस्य विद्वन्
कस्मादासीद्रामनामाभिधानम् ।
सर्वज्ञानामग्रणीस्त्वं हि किञ्चि-
त्ते नाबुद्धे विद्यते विष्टपेषु ॥ ९६ ॥


1अ. शुष्केऽत्र तेन । 2अ. सार्जिता स्यात् ।