पृष्ठम्:शङ्करविजयः.djvu/१४५

एतत् पृष्ठम् परिष्कृतम् अस्ति
121
अष्टमस्सर्गः

स​ चाम्बिकायाः प्रणिपत्य पादयो-
श्शनैश्शनै रामसमीपमाययौ ।
स तेन सार्धं शरणं ययौ शिवं
महापराधाञ्चकितोऽनुतापवान् ॥ १२३ ॥

1महापराधो विहितस्सुदुस्सह-
स्तथापि तं क्षन्तुमिहार्हसि प्रभो ।
कृतागसं किं पितरौ प्रमुञ्चतः
शिशुं सहित्वा पुनरेव रक्षतः ॥ १२४ ॥

धरा क्षमा सारवती प्रसिद्धा
बिभर्ति भूतानि दिवानिशं या ।
आदाय​ यद्गन्धगुणान् 2समर्चा
तन्मूर्तिभाजे भवते नमोऽस्तु ॥ १२५ ॥

यज्जीवनं जीवनमेव देहिनां
प्राणाञ्जना बिभ्रति यत्समाश्रयात् ।
यद्रूपमेवोपविधिर्विधीयते
तत्तावकीं मूर्तिमुशन्ति सज्जनाः ॥ १२६ ॥

यत्र जुह्वति घृताप्लुतं हविर्यो मुखं मखभुजां निगद्यते ।
यो निहन्ति बहिरान्तरं तमः सत्तमं तमपि तावकं वपुः ॥ १२७ ॥

यस्मादृते निखिलमेव भवत्यवेष्टं
यत्सङ्गतेर्भवति पावनताखिलस्य ।
दग्धृत्वमस्य यदुपाश्रयतोऽनलस्य
तत्तावकं वपुरहं प्रणतोऽस्मि देव ॥ १२८ ॥


1अ. मया । 2अ. समर्च्या ।