पृष्ठम्:शङ्करविजयः.djvu/१५५

एतत् पृष्ठम् परिष्कृतम् अस्ति
131
नवमस्सर्गः

तत्तादृशं सिद्धिदमीक्षमाणस्संसेव्य संमन्त्र्य मिथस्तमेति ।
देनानि भूयांसि किलागुरस्य ते जातहादौ भगवानथोचे ॥ ३६ ॥

योगिन् ! न्यसेविषि चिरं बहुमानतोऽहं
किश्चेप्सितं तव ददानि यदत्र शक्यम् ।
मर्त्यं हि तत्परहिताय शरीरमाप्यं
नो चेत्प्रयोजनमनेन किमस्ति लोके ॥ ३७ ॥

अख​ण्डमूर्धन्यकपालमाहुस्संसिद्धिदं साधक​पुङ्गवेभ्यः ।
विना भवन्तं बहवो न सन्ति तद्वत्पुमांसो भगवान्पृथिव्याम् ॥ ३८ ॥

तान्याचितुं न क्षमते प्रनो मे
को वेषधारी स्वशरीरमुज्झेत् ।
भवान्विरक्तो न शरीरमानी
परोपकाराय घृतात्मदेहः ॥ ३९ ॥

जनाः परक्लेशकथानभिज्ञा
नक्तंदिवं स्वार्थकृतात्मचित्ताः ।
रिपुं निहन्तुं कुलिशाय वज्री
दधीचिमार्दत्किल वाञ्छितास्थिः ॥ ४० ॥

वपुर्धरन्ते परतुष्टिहेतोः केचित्प्रशान्ता दयया परीताः ।
अस्मादृशाः केचन सन्ति लोके स्वार्थैकनिष्ठा दयया विहीनः ॥ ४१ ॥

इत्युक्तवन्तं भगवानथाब्र​वी-
न्मिथस्समायाहि करोमि ते मतम् ।
नाहं प्रकाशं वितरीतुमुत्सहे
शिरःकपालं विजनं समाश्रय ॥ ४२ ॥