पृष्ठम्:शङ्करविजयः.djvu/१६१

एतत् पृष्ठम् परिष्कृतम् अस्ति
137
नवमस्सर्गः

श्रीमज्जटायुवचनादधिगम्य सीतां
वृत्तान्ततो रवितनूजसखित्वमाप ।
हत्वैन्द्रमुद्धतबलं पवनस्य सूनुं
संप्राहिणोद्दशमुख​स्य पुराय देवः ॥ ७३ ॥

संपुप्लुवे जल​निधिं स ज​गाम लङ्कां
सीतामलोकत ददावथ चाङ्गुलीयम् ।
नत्वा बभञ्ज व​नमक्षकमाजिहिंस
लङ्कां ददाह पुनरादित मूर्धरत्नम् ॥ ७४ ॥

आदाय मूर्घमणिमम्बुनिधिं स तीर्त्वा
रामाय वृत्तमखिलं कथयाम्बभूव​ ।
रामो ययौ कपिभिरुद्ध​तवायुवेगै-
स्तीर्त्वाम्बुधिं विहितसेतुपथेन लङ्काम् ॥ ७५ ॥

हत्वा दशाननमथो सबलं सवित्रं
सीतामवाप्य दनुजं विदधेऽधिराजम् ।
आदाय शुद्धचरितां जनकात्मजां तां
आरोप्य पुष्पकमनेन ययाव​योध्याम् ॥ ७६ ॥

बह्वीस्समा व​सुमतीमनुशिष्य सम्यक्
भुक्त्वा च भोगमखिलं 1भुवि देववत्सः |
आरोप्य 2राजधुरमात्मगतां तनूजे
स्वीयैस्समं निजपदं प्रतिपेदिवांस्त्वम् ॥ ७७ ॥

भूत्वा दाशरथिर्गतो मुनिवनं भङ्क्त्वा धनुर्जानकीं
3मेजे प्राप्तपदच्युतिर्व​नगतरसख्यञ्च​ भानोस्सुते ।
हत्वा वालिनमम्बुधिं कपिगणैर्बध्वा जघान द्विषं
जानक्या सहितो भ​वान्पुनरगाद्रम्यामयोध्यां किल ॥ ७८ ॥


1अ. दिवि । 2अ. राज्य ।

3अ. लेभे ।