पृष्ठम्:शङ्करविजयः.djvu/१८३

एतत् पृष्ठम् परिष्कृतम् अस्ति
159
दशमस्सर्गः

तत इदं रुधिरारुणमिष्यते1
गगनमण्डलमञ्जनसंनिभम् ।
इति वदन्ति जनाः खलु सन्ध्ययो-
2ररुणतात्र मुषास्ति न सा तयोः ॥ १०१ ॥

विरहमाप रथाङ्गसमाह्वय​-
स्तत इदं तमसा जगदावृतम् ।
तरुमहीधरकाननभेदनं
न च शशाक विबोद्धुमयं जनः ॥ १०२ ॥

देशान्तरं नृप इवाधिगते दिनेशे
क्रान्तं तमःकुपतिना भुवनाख्यराज्यम् ।
दृष्ट्वोदगादिव रुषारुणबिम्बशाली
चन्द्रस्तदीयसुतवन्निजराज्यमायन् ॥ १०३ ॥

अपससार तमो नृपचोरवत्
शशिनृपो विरराज महाप्रभुः ।
अपि बभौ सुतरां ककुभामुखं
नृपवधूमुख​वन्नृप आगते ॥ १०४ ॥

आनन्दयन्नमृत3 रश्मिरपारतेजा
राजा रराज भुवनश्रमनुत् सुशीतः ।
स्वस्थोऽधिरूढनिजराज्यपदं सतार-
स्संभावयन्कुमुदब​न्धुवनं विनाथम् ॥ १०५ ॥

कश्चिद्युवा युवतिमाह विलोक्य चन्द्रं
दिङ्मण्डलीमुख​विकासनसंप्रवृत्तम् ।
वामे निघाय करपल्लवमेतदीय-
स्कन्धे निजं तदुपगूहनहृष्टरोमा ॥ १०६ ॥


1अ. [ईक्ष्यते] । 2अ. अरुणतेति ।

2का. गोभि।