श्रद्धालवस्तपसि शीतमनीक्षमाणाः
सस्नुर्नदीपयसि पुण्यमवाप्तकामाः ।
शारीरलोमनिकरे परि1दृश्यमाने
पूर्वाचले तपनमण्डलमण्डिताङ्गे ॥ ७२ ॥
सहस्ररश्मावदितेऽपि केचि-
न्न 2चात्यजन् शीतभयेन शय्याम् ।
पुराभवे सञ्चितपुण्यलेशा
निचेलिनो भोग्यवधूपगूढाः ॥ ७३ ॥
3कुल्योपकूलागतवारिपीतै-
र्निराकृताशेषतृणान्तरालैः ।
योधैरवाङ्गीकृतपंक्तिभावैः
पूगै रराजोपवनं तपस्ये ॥ ७४ ॥
सदालवालोदरनिर्गतासित
छदालिताम्बूललताभिवेष्टितैः ।
ली4लापचयाल्लघुभिस्समोन्नतै-
स्सबालकैः श्यामलदीर्घपत्रकैः ॥ ७५ ॥
आमूलकाग्रफलितैः पनसैरुपेतं
सीमाधिरोपितसदाफलनालिकेरम् ।
रम्भाभि5रुत्तमफलानतपुञ्जभाग्भिः
विस्तीर्णपत्रनिचयाभिरनिन्दिताभिः ॥ ७६ ॥
सोपानसंस्थं बहुदन्त 6शारं
सदा प्रवाहो7द्धदसत्तठाकम् ।
क्वचित्समानीतनदीकबन्धं
क्वचित्सुयन्त्रोद्धृतवारिपुष्टम् ॥ ७७ ॥
1अ. हृष्यमाणे । 2अ. तत्यजुः ।
3अ. कुल्योपकुल्यागतवारिपीतैः । 4अ. फलावचायात् ।
5अ. उन्नत । 6अ. शाटं ।
7अ. ऊर्ध्वग ।