पृष्ठम्:शङ्करविजयः.djvu/२०२

एतत् पृष्ठम् परिष्कृतम् अस्ति
178
शङ्करविजये

एवं क्रमादार्तवमीक्षमाण-
स्सोऽन्वेषमाणो यतिनां निकायः ।
समानयद्देशिकवर्यपाश्वं
भिषग्वरान् शास्त्रचणान् प्रवीणान् ॥ ७८ ॥

मुनिवरस्समुपाचरदागतान्
गृहिवरैर्धनधान्य 1पुराणकैः ।
मुमुदिरे कृतसत्करणादमी
गदनिदानविदो भिषजां वराः ॥ ७९ ॥

बहुदिनैर्बहुदेशसमागतान्
सबहुमानमिदं मुनिरब्रवीत् ।
कुशलता भवतामपि वर्तते
गृहकलत्रसुतादिषु संप्रति ॥ ८० ॥

विशदवारि मृदूलपसंयुतं
भवति काननमन्तिकभुगतम् ।
अपि पशव्यमपौढदवानलं
सरसपल्ल​व 2वल्गुलतावृतम् ॥ ८१ ॥

सुखदवं वनगोगणमक्षयं
किमु तरक्षुगणश्च न बाघतै ।
अभिमतं बहुवाघमुदीक्ष्यते
न हि विनष्टिरनीहित वस्तुनि ॥ ८२ ॥

हरिहयोऽभिमते समयेऽधुना
नदह्र​दे वसुधामाप वर्षति ।
अपि फलन्ति नगा उपजीव्यता-
मुपगता बहुतापभृतोऽनिशम् ॥ ८३ ॥


1अ. वरांशुकैः । 2अ. गुल्म ।

3अ. प्सित​ ।