एतत् पृष्ठम् परिष्कृतम् अस्ति



१००
[ अध्यायः ९
शिवगीता ।

 

तेजसोऽस्थि स्थविष्ठः स्यान्मज्जामध्यसमुद्भवः ।
कनिष्ठा वाङ्मता तस्मात्तेजोऽबन्नात्मकं जगत् ॥ ४० ॥
लोहिताज्जायते मांसं मेदो मांससमुद्भवम् ।
मेदसोऽस्थीनि जायन्ते मज्जा वास्थिसमुद्भवः ॥ ४१ ॥
नाड्योऽपि मांससंघाताच्छुक्रं मज्जासमुद्भवम् ॥ ४२ ॥
वातपित्तकफाश्चात्र धातवः परिकीर्त्तिताः ।
दशाञ्जलिं जलं ज्ञेयं रसस्याञ्जलयो नव ॥ ४३ ॥
रक्तस्याष्टौ पुरीषस्य सप्त हि श्लेष्मणश्च षट् ॥
पित्तस्य पञ्चचत्वारो मूत्रस्याञ्जलयस्त्रयः ॥ ४४ ॥


जोमयी वाकू" " इत्यत्रापि झेयम् ॥ ३८ ॥ ३९ ॥ तेजस इतेि । तेजसः घृतादेः अशितस्य मज्जामध्यान्मध्यमभागात् समुद्भवो यस्य स तथा ।। "कनिष्ठभागात् वाग्भवति” इति श्रुतेर्ज्ञेयः 'r-तथा च श्रुतेिः "अन्नमशितं त्रेधा भवति यः स्थविष्टो धातुस्तत्पुरीषम्” इत्याद्युपक्रम्य जलभागानुक्त्वा तेजोभागद्वयानन्तरं "यः कनिष्ठ: स वाकू" इति । स्पष्टमन्यत् । ४० ॥ ४१ ॥ ४२ ॥ इदानीं शरीरस्थानां केषांचिद्रसानां परिणाम उच्यते । यद्यपि पूर्वोत्तानां वक्ष्यमाणानां च विकाराणां ज्ञानं न मोक्षसाधनं तथापि वैराग्यहेतुत्वादुक्तं भगवता शिवेन । यदध्यासेन प्राणिनो मुह्यन्ति तस्य शरीरस्यैतादृशी गतिरितेि भावः'। ‘परीक्ष्य लोकान्कर्मचितान्ब्राह्मणो निर्वेदमात्” इति श्रुत्या वैराग्यस्याभ्यहिंतत्वेन प्रतिपादनात् । वातेतेि । 'एतेपि शरीरे धातवः सन्ति । यथा पञ्चीकरणप्रक्रिया शास्रकारैरुक्ता तथेदमञ्जलेपरिमाणमपि तैरेव व्यवस्थापितमायुर्वेदादांविति नात्र शङ्का विधेया । तदुक्तम् "अचिन्त्याः खलु ये भावा न तांस्तकेंण योंज्येन्" इति । दशति। तत्परिमाणकमित्यर्थः। सम्यक्परिणतस्याहा-

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:शिवगीता.djvu/103&oldid=160534" इत्यस्माद् प्रतिप्राप्तम्