एतत् पृष्ठम् परिष्कृतम् अस्ति



१२१
बालानन्दिनीव्याख्यासहिता ।

 


चक्षुषोर्वापि मूर्ध्नो वा नाडीमार्गं समाश्रितः ।
विद्याकर्मसमायुक्तो वासनाभिश्च संयुतः ॥
प्राज्ञात्मानं समाश्रित्य विज्ञानात्मोपसर्पति ॥ ९ ॥
यथा कुम्भो नीयमानो देशाद्देशान्तरं प्रति।
खपूर्ण एव सर्वत्र स अाकाशोऽपि तत्र तु ॥ १० ॥
घटाकाशाख्यतां याति तद्वल्लिङं परात्मनः ॥ ११ ॥
पुनर्देहान्तरं याति यथा कर्मानुसारतः ।
अामोक्षात्संचरत्येवं मत्स्यः कूलद्वयं यथा ॥ १२ ॥
पापभोगाय चेन्द्रच्छेद्यमदूतैरधिष्ठितः ।
यातनादेहमाश्रित्य नरकानेव केवलम् ॥ १३ ॥


॥ ७ ॥ ८ ॥ कस्मान्मार्गादुपसर्पतीत्याकाङ्क्षायामाह--चक्षुषोरिति । विद्याकर्मभ्यां समायुक्तः वासनाभिश्च पूर्वप्रज्ञानुसारिणीभिः संयुतः । तथाच श्रुतिः "तं विद्याकर्मणी समन्वारभेते पूर्वप्रज्ञा च” इति । प्रज्ञात्मानं समाश्रित्य । तत्प्रेरितः सन्नित्यर्थः । तथाच श्रुतिः "प्राज्ञेनात्मनान्वारूढ़ उत्सर्जन्याति” इतेि । उत्सर्जन हिक्कादिशब्दं कुर्वन् उपसर्पति औपाधिकगमनभाग्भवति । नहि मुख्यं गमनं पूर्णस्य संभवति ॥ ९ ॥ औपाधिकगमनमेव दृष्टान्तेन द्रढयति --यथेति । सर्वत्र स घटः खपूर्णएव सर्वो घटावच्छिन्नाकाश इति व्यवह्रियते । तत्र घट अानीते घटाकाशोऽयमिति व्यवह्नियते तद्वत्परात्मनो जीवस्य लिङ्गशरीरं जीवपूर्णमेव याति । यतो देहाद्याति तत्र न जीवत्वव्यवहारः । यस्मिन्देहे तिष्ठति तत्रैव जीव इति व्यवहार इति भावः ॥ १० ॥ ११ ॥ पुनरिति । अामोक्षात् मोक्षपर्यन्तमित्यर्थः । कूलद्वयं तीरद्वयम् ॥ १२ ॥ पापेति । केवलं पापभोगाय चेद्गच्छेत्तर्हि नरकानेव गच्छेत् । उभयभोगाय चेन्मनुष्यलोकं गच्छेदिति भावः ।। "उभाभ्यां मनुष्यलोकः" इति श्रुतेः ॥ १३ ॥

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:शिवगीता.djvu/123&oldid=162661" इत्यस्माद् प्रतिप्राप्तम्