पृष्ठम्:शिशुपालवधम् (मल्लिनाथव्याख्योपेतम्).djvu/१९१

एतत् पृष्ठम् परिष्कृतम् अस्ति
१६१
षष्ठः सर्गः ।

रेषु वसन्तदिनेषु सारं श्रेष्ठं मधुवासरसारम् । तत्कालश्लघ्यमित्यर्थः । चूतं सह- कारमतिरागादतिलौल्यादुज्झितुं हातुं नाक्षमिष्ट नासहिष्ट । क्षमेर्भौवादिकाल्लुङ् । स्वागता वृत्तम् । 'स्वागतेति रनभाद्गुरुयुग्मम्' इति लक्षणात् ॥ ६८ ॥

 जगद्वशीकर्तुमिमाः स्मरस्य प्रभावनीके तनवै जयन्तीः ।
 इत्यस्य तेने कदलीमधुश्रीः प्रभावनी केतनवैजयन्तीः ॥६९॥

 जगदिति ॥ प्रभावयतीति प्रभावनी संपादयित्री । कर्तरि ल्युटि ङीप् । मधुश्रीः कर्त्री जगद्वशीकर्तुं प्रभौ समर्थे अस्य स्मरस्यानीके सैन्ये जयन्तीर्जित्वरीः केतनवैजयन्तीर्ध्वजपताकाः तनवै करवाणि । तनोतेः प्राप्तकाले लोट् । टेरेत्वमित्ये- कारः 'एत ऐ' (३।४।९३) 'आडुत्तमस्य पिच्च' (३।४।९२) इति आटि 'आटश्च' (६|१|९०) इति वृद्धिः । इति मनीषयेति शेषः । इमाः कदली रम्भातरूंस्तेने वितस्तार । 'कदली वारणबुशा रम्भा मोचांशुमत्फला' इत्यमरः । कदलीषु काम- वैजयन्तीत्वोत्प्रेक्षा । वृत्तमुपजातिः ॥ ६९ ॥

 स्मररागमयी वपुस्तमिस्रा परितस्तार रवेरसत्यवश्यम् ।
 प्रियमाप दिवापि कोकिले स्त्री परितस्ताररवे रसत्यवश्यम् ७०

 स्मरेति ॥ असती दुष्टा स्मरेण कामेन निमित्तेन यो रागो रमणेच्छा स एव तन्मयी तमिस्रा तमस्तोमः। 'तमिस्रा तिमिरे रोगे तमिस्रा तु तमस्ततौ । कृष्ण- पक्षनिशायां च' इति विश्वः । रवेर्वपुर्मण्डलं परितस्तार आवव्रे । अहनि रजनीधियं जनयामासेत्यर्थः । परिपूर्वात्स्तृणातेर्लिट् । अवश्यम् । सत्यमित्यर्थः । कुतः । परितः समन्तात् ताररवे उच्चतरध्वनौ कोकिले रसति कूजति सति इत्युद्दीपकोक्तिः । स्त्री। स्त्रिय इत्यर्थः । जातावेकवचनम्। दिवेति सप्तम्यर्थेऽव्ययम् । वशं गतो वश्यः । 'वशं गतः' (१४८६) इति यत्प्रत्ययः । न वश्यस्तमवश्यम् । अवशं गतमपीत्यर्थः । प्रियमाप । स्वयमभिससारेत्यर्थः । यदवगणयन्तमपि प्रियं दिवापि मानमवगणय्य निषेधं चोल्लङ्घ्य समगच्छंस्तत्सत्यम् । रागतिमिरतिरोहितमानभानुमण्डला मानिन्य इति रूपकानुप्राणिता प्रियाप्तिक्रियानिमित्ता परिस्तरणक्रियास्वरूपोत्प्रेक्षा अवश्यमिति व्यञ्जकप्रयोगाद्वाच्या । औपच्छन्दसिकं वृत्तम् । 'विषमे ससजा गुरू समे चेत् स्मर तच्छन्दसिकं तदोपपूर्वम्' इति लक्षणात् ॥ ७० ॥

 अथैकेन ग्रीष्ममाह-

 वपुरम्बुविहारहिमं शुचिना रुचिरं कमनीयतरा गमिता ।
 रमणेन रमण्यचिरांशुलतारुचिरङ्कमनीयत रागमिता ॥७१।।

 वपुरिति ॥ शुचिना ग्रीष्मेण प्रयोजककर्त्रा अम्बुविहारेण जलक्रीडया हिमं शीतलमत एव रुचिरमुज्वलं वपुर्देहं गमिता प्रापिता । 'गतिबुद्धि-' (११४५२) इत्यादिना अणिकर्तुः कर्मत्वम् , 'प्रधानकर्मण्याख्येये लादीनाहुर्द्विकर्मणाम्' इत्यभि- हितत्वं च । अत एव कमनीयतरा रमणीयतरा अचिरांशुर्लतेवाचिरांशुलता विद्यु- ल्लता तस्या रुचिरिव रुचिर्यस्याः सा अचिरांशुलतारुचिः इत्युपमाद्वयम् । तथा

रागमनुरागमिता प्राप्ता । इणः कर्तरि क्तः । रमणी रमणेन प्रियेणाङ्कमुत्सङ्गमनी-