पृष्ठम्:शिशुपालवधम् (मल्लिनाथव्याख्योपेतम्).djvu/२७१

एतत् पृष्ठम् परिष्कृतम् अस्ति
२४१
दशमः सर्गः ।

 अथ मदानुभावान् वर्णयति-

 प्रातिभं त्रिसरकेण गतानां वक्रवाक्यरचनारमणीयः।
 गूढसूचितरहस्यसहासः सुभ्रुवां प्रववृते परिहासः ॥ १२ ॥

 प्रातिभमिति ॥ त्रयाणां सरकाणां समाहारस्त्रिसरकं त्रिवारमधुपानम् । "सरकं शीधुपात्रे स्याच्छीधुपाने च शीधुनि' इति विश्वः ।‘तद्धितार्थ-' (२।१।५१) इत्यादिना समाहारे द्विगुः पात्रादित्वान्नपुंसकत्वम् । तेन त्रिसरकेण निपानं मदातिभूमिरिति पानप्रसिद्धिः । प्रतिभैव प्रातिभं प्रतिभाविशेषः । प्रज्ञादित्वात्स्वार्थेऽण्प्रत्ययः । यद्वा 'ज्ञानबीजभूतः संस्कारविशेषः प्रतिभा' इति काव्यप्रकाशकारः। तत्र भवं प्रातिभं ज्ञानप्रभाविशेष एव । भवार्थेऽण्प्रत्ययः । तत्प्रातिभं गतानाम् । त्रिवारमधुपानोत्कटमदोद्बुद्धसंस्कारप्रभावितप्रगल्भमतीनामित्यर्थः । सुभ्रुवां स्त्रीणां वक्रवाक्यरचनारमणीयः प्रतिकूलवाक्यप्रयोगरम्यः। गूढानि पूर्वं लज्जया संवृतानि सूचितानि संप्रति मदेन प्रकाशितानि रहस्यानि ग्राम्यावयवचेष्टाप्रलपितानि यस्मिन् स गूढसूचितरहस्यः स चासौ सहासश्चेति विशेषणसमासः वैवक्षिकविशेषणविशेष्यभावात् । 'हासो हास्यम्' इत्यमरः । परिहासो नर्मकेलिरुपहासक्रीडेति यावत् । 'द्रवकेलिपरीहासाः' इत्यमरः । प्रववृते प्रवृत्तः । इतः परं मदः संचारी ॥१२॥

 हावहारि हसितं वचनानां कौशलं दृशि विकारविशेषाः ।
 चक्रिरे भृशमृजोरपि वध्वाः कामिनेव तरुणेन मदेन ॥ १३ ॥

 हावेति ॥ तरुणेनोत्कटेन यूना च मदेन कामिनेव ऋजोर्मुग्धाया अपि वध्वाः । किमुत प्रौढानामिति भावः । हावहारि विलासमनोहरं हसितं हासः वचनानां कौशलं प्रागल्भ्यं दृशि विकारविशेषाः विलासविशेषाश्चक्रिरे कृतानि । पुंसेव मौग्ध्यं त्याजयित्वा प्रौढ्यं नीतेत्यर्थः । अत्र हसितकौशलविकाराणां यौगपद्योक्त्या समुच्चयः । 'गुणक्रियायौगपद्यं समुच्चयः' इति लक्षणम् । तस्यौपम्ययोगेन संकरः । तेन ऋजोरपीत्यत्र किमुत प्रौढानामित्यर्थापत्तिर्व्यज्यते ॥ १३ ॥

 अप्रसन्नमपराद्धरि पत्यौ कोपदीप्तमुररीकृतधैर्यम् ।
 क्षालितं नु शमितं नु वधूनां द्रावितं नु हृदयं मधुवारैः ॥ १४ ॥

 अप्रसन्नमिति ॥ अपराद्धरि आगस्कारिणि । राधेस्तृच्प्रत्ययः । पत्यौ विषये अप्रसन्नं कलुषम् । क्षुभितमित्यर्थः । कोपदीप्तं कोपेन ज्वलितम् , उररीकृतधैर्यमङ्गीकृतकाठिन्यम् । 'ऊरीकृतमुररीकृतम्' इत्यमरः । 'ऊर्यादिच्विडाचश्च' (१।४।६१) इति गतित्वात् 'कुगतिप्रादयः' (२।२।१८) इति समासः । वधूनां हृदयं मधुवारैर्मद्यपर्यायैः । 'मधुवारा मधुक्रमाः' इत्यमरः । क्षालितं धौतं नु । शमितं निर्वापितं नु । गावितं गवीकृतं नु । अन्यथा कथं तादृगप्रसन्नतादीप्तताकठिनतानां

हठान्निवृत्तिरिति भावः । अत्र क्षालितत्वादीनामेकत्राविरोधात्सादृश्याच्च न संशयालंकारः । सति सादृश्ये विरुद्धानेककोटिगोचरत्वात्तस्य, किंत्वप्रसन्नत्वादिनिरास-


शिशु० २१