पृष्ठम्:शिशुपालवधम् (मल्लिनाथव्याख्योपेतम्).djvu/४७१

एतत् पृष्ठम् परिष्कृतम् अस्ति
४४१
सप्तदशः सर्गः ।

महाभारते-'स्त्रियो जारेण तुष्यन्ति गावः स्वच्छन्दचारतः । कुञ्जराः पांशुवर्षेण ब्राह्मणाः परनिन्दया ॥' इति । दिगन्तलम्बिनो मेघाः सेनारजोमेलनाबहुली- बभूवुरित्यर्थः । अत्र दिगन्तेषु तन्मेघेषु च दन्तित्वतन्मदत्वरूप णात्समस्तवस्तु- वर्ति सावयवरूपकं मुखमेव मुखमिति श्लिष्टपरम्परितमिति संकरः । अजिहतेति ओहाङो लङि तङ्श्नाभ्यस्तयोरातः' (६।४।११२) इत्याकारलोपः 'अदभ्य- स्तात्' (७।१।४) इत्यदादेशः ॥ ५७ ॥

 शिरोरुहैरलिकुलकोमलैरमी मुधा मृधे मृषत युवान एव मा ।
 बलोद्धतं धवलितमूर्धजानिति ध्रुवं जनाञ्जरत इवाकरोद्रजः ॥५८।।

 शिरोरुहैरिति ॥ अलिकुलकोमलैर्भ्रमरवृन्दमनोरमैः शिरोरुहैः केशैरुपल- क्षिता अमी राजानो युवान एव मुधा वृथा मृधे युद्धे । 'मृधमास्कन्दनम्' इति युद्धपर्यायेष्वमरः । मा मृषत न मृयन्ताम् । म्रियतेर्माङि लुङि 'न माङ्योगे' (६।४।७४) इत्यडभावः । 'उश्च' (१।२।१२) इति सिचः कित्त्वान्न गुणः । इति । इत्थमालोच्येत्यर्थः । बलोद्धतं रजः कर्तृ धवलितमूर्धजान्धवली- कृतकेशाञ्जनान् जरत इवाकरोत् । वृद्धानिवाकरोदित्यर्थः । ध्रुवमित्युप्रेक्षायाम् । अत्रेवशब्दस्यावधारणार्थत्वान्न तेन पौनरुक्त्यम् । 'इवौपम्येऽवधारणे' इति विश्वः । 'प्रवयाः स्थविरो वृद्धो जीनो जीर्णो जरन्नपि' इत्यमरः । 'जीर्यतेरतृन्' (३।२। १०४) इत्यतृन्प्रत्ययः ॥ ५८॥

 सुसंहतैर्दधदपि धाम नीयते तिरस्कृतिं बहुभिरसंशयं परैः।
 यतः क्षितेरवयवसंपदोऽणवस्त्विषां निधेरपि वपुरावरीषत ॥५९॥

 सुसंहतैरिति ॥ धाम तेजो दधदपि दधानोऽपि । तेजस्व्यपीत्यर्थः । परैरन्यैः सुसंहतैः सुसंगतैः परैरैक्यं गतैश्च बहुभिस्तिरस्कृतिं नीयते । असंशयं निश्चि- तम् । अर्थाभावेऽव्ययीभावः । कुतः । यतोऽणवः सूक्ष्माः क्षितेरवयवसंपदो रेणु- समृद्धयः त्विषां निधेः सूर्यस्यापि वपुरावरीषत आच्छादितवत्यः । वृङो लुङि 'वृतो वा' (७।२।३८) इतीटो दीर्घः । विशेषेण सामान्यसमर्थनरूपोऽर्थान्तरन्यासः ५९

 द्रुतद्रवद्रथचरणक्षतक्षमातलोल्लसद्भहुलरजोवगुण्ठितम् ।
 युगक्षयक्षणनिरवग्रहे जगत्पयोनिधेर्जल इव मग्नमाबभौ ॥ ६० ॥

 द्रुतेति ॥ द्रुतं शीघ्रं द्रवतां धावतां रथानां चरणैश्चक्रैः क्षताक्षुण्णात् क्षमा- तलादुल्लसता पतता बहुलेन सान्द्रेण रजसावगुण्ठितमाच्छादितं जगद्युगक्षयक्षणे कल्पान्तकाले निरवग्रहे निष्प्रतिबन्धे पयोनिधेर्जले मग्नमिवाबभावित्युप्रेक्षा ॥६०॥

 समुल्लसद्दिनकरवऋकान्तयो रजस्वलाः परिमलिताम्बरश्रियः ।
 दिगङ्गनाःक्षणमविलोकनक्षमाः शरीरिणां परिहरणीयतां ययुः६१

 समुल्लसदिति ॥ समुल्लसन्ती दिनकरस्येव वक्त्रस्य कान्तिर्यासां ताः रजो रेणुरेव रज आर्तवमासामस्तीति रजस्वलाः । 'रजःकृष्यासुतिपरिषदो वलच्' (५।२।११२) इत्यादिना मत्वर्थीयो वलच्प्रत्ययः । धूलिधूसरा उदक्यश्च । परि- मलिताः परितः संजातमला अम्बरस्याकाशस्येवाम्बरस्य वस्त्रस्य च श्रीर्यासां ताः

पाठा०-१ 'म्रियतां'.