पृष्ठम्:शिशुपालवधम् (मल्लिनाथव्याख्योपेतम्).djvu/५१९

एतत् पृष्ठम् परिष्कृतम् अस्ति
४८७
एकोनविंशः सर्गः ।

रसयोरदनं भक्षकम् । कर्तरि ल्युट् । रक्षांसि च पिशाचाश्च रक्षःपिशाचम् । समाहारे द्वन्द्वैकवद्भावः । मुमुदे जहर्ष । अत्र मोदस्य वमनवाक्यार्थहेतुत्वा- द्वाक्यार्थहेतुकं काव्यलिङ्गं, तञ्च यमकेन संसृज्यते ॥ ७८ ॥

   चित्रं चापैरपेतज्यैः स्फुरद्रक्तशतहृदम् ।
   पयोदजालमिव तद्वीराशंसनमाबभौ ॥ ७९ ॥

 चित्रमिति ॥ अपेतज्यैरपगतमौर्वीकैः । 'मौर्वी ज्या शिकञ्जिनी गुणः' इत्य- मरः । चापैश्चित्रं विचित्रम् । स्फुरन्ति रक्तान्येव शतहृदाः शम्पा यस्मिंस्तत् । 'शम्पा शतह्रदा ह्रादिनी' इत्यमरः । तत्प्रकृतं वीर आशंस्यतेऽत्रेति वीराशं- सनं भयंकरा युद्धभूमिः । 'सा वीराशंसनं युद्धभूमिर्याऽतिभयप्रदा' इत्यमरः । पयोदजालमिवाबभौ ॥ ७९ ॥

   बन्धौ विपन्नेऽनेकेन नरेणेह तदन्तिके ।
   अशोचि सैन्ये घण्टाभिर्न रेणे हतदन्तिके ॥ ८०॥

 बन्धाविति ॥ इह सैन्ये बन्धौ विपन्ने मृते सति अनेकेन नरेण । अनेकै- र्नरैरित्यर्थः । जातावेकवचनम् । तदन्तिके तस्य मृतस्य बन्धोरन्तिके अशोचि । किंच हता दन्तिनो यत्र तस्मिन् हतदन्तिके सैन्ये घण्टाभिर्न रेणे न दध्वने । रणतेर्भावे लिट् । अत्र हतदन्तिके इति विशेषणगत्या घण्टानामरणनहेतुत्वा- त्पदार्थहेतुकं काव्यलिङ्गं यमकेन संसृज्यते ॥ ८०॥

   कृत्तैः कीर्णा मही रेजे दन्तैर्गात्रैश्च दन्तिनाम् ।
   क्षुण्णलोकासुभिर्मृत्योर्मुसलोलूखलैरिव ॥ ८१ ॥

 कृत्तैरिति ॥ कृत्तैः छिन्नैः दन्तिनां दन्तैर्गात्रैश्च कीर्णा मही रणभूमिः क्षुण्णाः पिष्टा लोकासवो जनप्राणा यैस्तैः मृत्योर्मुसलोलूखलैः कीर्णेव रेजे । 'अयोग्रं मुसलोऽस्त्री स्यादुदूखलमुलूखलम्' इत्यमरः । अत्र मुसलोलूखलैरिति राजदन्ता- दिपाठेऽपि 'सर्वकूलाभ्र-' (३।२।४२) इत्यादिसूत्रादेव व्यभिचारज्ञापकात्पर- निपातव्यत्ययः॥८१ ॥

   युद्धमित्थं विधूतान्यमानवानभियो गतः ।
   चैद्यः परान्पराजिग्ये मानवानभियोगतः ॥ ८२ ॥

 युद्धमिति ॥ मानवानभिमानवान् चैद्यो युद्धं गतः प्राप्तः सन् इत्थं विधूता अभिभूता अन्ये चैद्यातिरिक्ता मानवा यैस्तान् । विधूतान्यमानवान् अभियः निर्भीकान्परानरीन् अभियोगतोऽभियोगादभ्यवरोधात्पराजिग्ये । जिगायेत्यर्थः । 'विपराभ्यां जेः' (१|३|१९) इत्यात्मनेपदम् । 'सन्लिटोर्जेः' (७३।५७) इति कुत्वम् ॥ २॥

 अथ भगवदभियोगं पञ्चभिः कुलकेनाह-

   अथ वक्षोमणिच्छायाछुरितापीतवाससा ।
   स्फुरदिन्द्रधनुर्भिन्नतडितेव तडित्त्वता ॥ ८३॥