पृष्ठम्:शिशुपालवधम् (मल्लिनाथव्याख्योपेतम्).djvu/६१

पुटमेतत् सुपुष्टितम्
३१
द्वितीयः सर्गः ।

स च सर्वोभयार्थाभ्यामिष्यते । पौरुषेयेण प्रतिबिम्बभूयस्त्वात् पुरुषसमूहेनावृता इवेत्युप्रेक्षा । चकाशिरे । 'सर्वपुरुषाभ्यां णढञौ' (५।१।१०) 'पुरुषाद्वधविकारसमूहतेनकृतेष्विति वक्तव्यम्' (वा०) इति समूहे ढञ्प्रत्ययः । एतेन विजनत्वमुक्तम् । यद्यपि निस्तम्भे निर्गवाक्षे च निर्भित्त्यन्तरसंश्रये । प्रासादाग्रे त्वरण्ये वा मन्त्रयेद्भावभाविनौ ॥' इति कामन्दकीये मन्त्रभूमेः स्तम्भाप्राचुर्यनिषेधो गम्यते । तथापि तस्यापि विजनोपलक्षणत्वाददोष इति भावः ॥ ४ ॥

  अध्यासामासुरुत्तुङ्गहेमपीठानि यान्यमी ।
  तैरूहे केसरिक्रान्तत्रिकूटशिखरोपमा ॥ ५ ॥

 अध्यासामासुरिति ॥ अमी त्रयो यान्युत्तुङ्गहेमपीठानि आसनानि अध्यासामासुरधितष्ठुः । येषूपविष्टा इत्यर्थः । 'अधिशीङ्स्थासां कर्म' (१।४।४६) इति कर्मत्वम् । 'आस उपवेशने' लिट् । 'दयायासश्च' (३।१।३७) इत्याम्प्रत्ययः । 'कृञ्चानुप्रयुज्यते लिटि' (३।१।४०) इत्यस्तेरनुप्रयोगः । 'आम्प्रत्ययवत्कृञोऽनुप्रयोगस्य' (१।३।६३) इति कृञ एवेति नियमादस्तेर्नात्मनेपदम् । तैः पीठैः केसरिभिः सिंहैः क्रान्तानां त्रिकूटस्य त्रिकूटाद्रेः शिखराणामुपमा सादृश्यमूहे ऊढा । वहेः कर्मणि लिट् । संप्रसारणम् । त्रीणि कूटान्यस्येत्यन्वर्थसंज्ञा । 'कूटोऽस्त्री शिखरं शृङ्गम्' इत्यमरः । उपमालंकारः ॥ ५ ॥

  गुरुद्वयाय गुरुणोरुभयोरथ कार्ययोः ।
  हरिर्विप्रतिषेधं तमाचचक्षे विचक्षणः ॥ ६ ॥

 गुर्विति ॥ अथोपवेशनानन्तरं विचष्टे इति विचक्षणो वक्ता । कर्तरि ल्युडिति न्यासकारः । 'असनयोश्च प्रतिषेधो वक्तव्यः' (वा०) इति चक्षिङः ख्याञादेशाभावः । हरिर्गुर्वोः उद्धवरामयोः पितृव्यज्येष्ठभ्रात्रोर्द्वयाय । द्वाभ्यामित्यर्थः । गुरुणोर्महतोरुभयोः कार्ययोः पूर्वोक्तयोः तं विप्रतिषेधं विरोधमाचचक्षे आख्यातवान् । तुल्यबलविरोधो विप्रतिषेधः ॥ ६ ॥

  द्योतितान्तःसभैः कुन्दकुड्मलाग्रदतः स्मितैः ।
  स्नपितेवाभवत्तस्य शुद्धवर्णा सरस्वती ॥ ७ ॥

 द्योतितेति ॥ कुन्दं माघभवः पुष्पविशेषः । 'माध्यं कुन्दम्' इत्यमरः । कुन्दकुड्मलाग्राणीव दन्ता यस्य तस्य कुन्दकुड्मलाग्रदतः । 'अग्रान्तशुद्धशुभ्रवृषवराहेभ्यश्च' (५।४।१४५) इत्यग्रान्तपूर्वपदबहुव्रीहेः समासान्तो वैभाषिको दतादेशः । तस्य हरेः सरस्वती अन्तःप्रधाना सभा अन्तःसभा । सभाभ्यन्तरमित्यर्थः । सा द्योतिता प्रकाशिता यैस्तैः स्मितैः स्नपितेव क्षालितेव । स्नातेर्ण्यन्तात् क्तः । 'अर्तिह्री (७।३।३६) इत्यादिना पुगागमः । मितां ह्रस्वः । शुद्धवर्णा स्फुटाक्षरत्वात् स्वच्छकान्तिरभवत् । अत्र स्वाभाविकवर्णशुद्धेः स्नानहेतुकत्वमुत्प्रेक्ष्यते । स्मितपूर्वाभिभाषी हरिरिति भावः ॥ ७ ॥

 कार्यविप्रतिषेधं निवेद्य तत्र स्वमतमावेदयिष्यन् पण्डितमानित्वं तावत्परिहरति--

  भवद्गिरामवसरप्रदानाय वचांसि नः ।
  पूर्वरङ्गः प्रसङ्गाय नाटकीयस्य वस्तुनः ॥ ८ ॥