पृष्ठम्:श्रीपाञ्चरात्ररक्षा.djvu/१३०

पुटमेतत् सुपुष्टितम्
६५
द्वितीयोऽधिकारः

 इदं च विष्ण्वाराधन भगवच्छास्त्रेषु तैस्तैर्व्यापकमन्त्रप्रभृतिभिस्तत्तदधिकारानुरूपं प्रपञ्च्यते । अधिकृतशास्त्रप्रतिपादितस्य पूर्णोपदिष्टस्यैव

पाञ्चरात्रोक्त समा-
राधनमेव सर्वेषा
मुख्यम् ।

मुख्यत्व होतृशाखोक्तहौत्रपरिग्रहन्यायेन सिद्धम् । एतेन "अलाभे वेदमन्त्राणा पञ्चरात्रोदितेन वा" इति [१] स्मृतिरपि प्रणवाष्टाक्षर द्वादशाक्षरादिमन्त्राणामाथर्वणरहस्याम्नायाद्यधीततया वेदमन्त्रशब्देन सग्रहात् पञ्चरात्रोदितेन वा इत्ययमंशस्तान्त्रिकसंज्ञितप्रत्यक्षेतरश्रुतिमूलमन्त्रान्तरविषयतया योज्य [२]

 नित्य चैतद्वैश्वदेवादिवद्भगवत्समाराधनम् । 'नित्यमाराधयेद्धरिम्' ।

भगवत्समाराधनस्य
नित्यत्वम् ।

इति वचनवात् ।


"शौनकोऽहं प्रवक्ष्यामि नित्य विष्ण्वर्चन परम् ।
प्रव पान्तमन्धसोऽधियेत्यर्धर्चविधानत [३] ॥ "

इति सूत्रान्तरानुसारात् ।

"स्नात्वा नित्य शुचि कुर्याद्देिवर्षिपितृतर्पणम् ।
देवताभ्यर्चतं चैव समिदाधानमेव च ॥"

इति सामान्यतो मनूक्तेश्च । उक्तं चानुशासनिके श्रीपुण्डरीक-नारद संवादे----

"ब्रह्मचारी गृहस्थो वा वानप्रस्थोऽथ भिक्षुक ।
केशवाराधनं हित्वा नैव याति परा गतिम् ॥ " इति ।

  1. स्मृतिरपि इत्येव सर्वत्र पाठ
  2. योज्या-ख,ग
  3. धीत्यृचोऽर्धस्य-घ,ड,ज,चोर्धर्च-ख,ग,धि,इत्यर्धर्च-क,झ