पृष्ठम्:श्रीपाञ्चरात्ररक्षा.djvu/२३०

पुटमेतत् सुपुष्टितम्
१६५
तृतीयोऽधिकार

भुक्त्वा संविश्य शयने समुत्थाय महानिशि ॥
आचम्य प्रयतो भूत्वा ध्यात्वा परमपुरुषम् ।
योगासने समासीनो युञ्जीतात्मानमात्मनि ॥
यथोक्तेन प्रकारेण यथाशक्ति चतुर्मुख ।
सहारक्रममाश्रित्य तत्त्वान्यात्मनि संहरेत् ॥
आत्मानं चापि हृत्पद्मे परमात्मनि विष्ठिते ।
सहरेदुत्थितो योगात् स्वाप क्लेशापहं व्रजेत् ।
इत्येष कथितो ब्रह्मन् योगकालश्च पञ्चम " ॥ इति ।

 न चैतन्निरन्तरभगवदनुसन्धानं सनकादिसाद्धयमस्मदादिभिर्दुःशकमिति

योगस्य यथाशक्त्य-
नुष्ठेयत्वम् ।

मत्वोदासितव्यम् । यथारोग्य भोजनवत् यथाशक्ति तदास्वादस्यापरित्याज्यत्वात् । उक्तं च[१]

श्रीमत्प्रह्लादेन---

"आयास स्मरणे कोऽस्य स्मृतो यच्छति शोभनम् ।
पापक्षयश्च भवति स्मरता तमहर्निशम् " ॥ इति ।

 अतो यथा वा[२]-

" द्रष्टुमिच्छामि ते रूपमैश्वर परमेश्वर ।
मन्यसे यदि तच्छक्यं मया द्रष्टुमिति प्रभो ।
योगेश्वर ततो मे त्वं दर्शयात्मानमव्ययम् ' ॥

इत्येतावद्वादिनोऽर्जुनस्य भगवान् विश्वरूपं स्वात्मानं दर्शयामास , एवमत्रापि स्वानुभवसापेक्षान्[३] यथामनोरथ परमोदारो भगवानेव स्वात्मानमनुभाव

  1. च शब्दो घ कोशे नास्ति
  2. वा शब्द घ, ङ, छ कोशेषु नास्ति
  3. स्वानुभवसापेक्षाणा-ड, च, छ, घ कोशोऽत्र शिथिल